________________
विचार-10 वा परिकारियचेइयालए विग्घमायरंतस्स महामिच्छत्तं न तस्स गंठिभेओवि संभाविज्जइ, जे पासत्था जे कुंदसणाए विमोहिया सुविहियाणं | अभयदेवसूरत्नाकरः बाहाकरा हवंति, जे वा जाइनाइपक्खवाएणं साहूणं दाणाइसु पयट्टंति न गुणचिंताए तेवि तहेव, एयंमि विवज्जासरूवे मिच्छते सह
गच्छ
विचार: सुबहुपढंतो अन्नाणी चेव, एएसु अ हुँतेसु अइदुक्करावि किरिया न मुक्खसाहगा जम्हा सो अविरओ कहिज्जइ, पंचमगुणट्ठाणे देसविरई छट्टगुणठाणे सव्वविरइ न पढमगुणट्ठाणे, तस्स य अणंताणुबंधिप्पमुहा सोलसवि कसाया बझंति उइज्जंति अ, तन्निमित्ताउ असुहाओ
दीहट्ठिइओ तिव्वाणुभागाओ पयडीओ बझंति, तासिं च उदएण नरयतिरियकुमाणुसत्तकुदेवत्तरूवो संसारो । इति श्रीउपमितिभवप्र||२७
पञ्चग्रन्थे ॥ ७७॥
इमानि चाक्षराणि दर्श दर्शमियं गरीयसी चिन्ताऽस्मच्चित्तमाचामति यत् यः श्रीजिनपूजाप्रतिमाया रजःपर्वराजत्वमुक्तवान्, तस्य का गतिर्भाविनी ? इति । अथवा पर्याप्तं चिन्तयाऽवश्यंभाविनोऽप्रतीकार्यत्वम् । गतिं तु तस्योपमितिभवप्रपञ्चैव उक्तवती । ननु भवद्भिरपि द्रव्यलिङ्गिबोटिककटुकचैत्यानामवन्द्यत्वमङ्गीकृतमेव, ततश्चोभयोः समौ दोषपरिहारौ, मैवं जाल्मत्वं त्यज्यताम् । तेषां हि साध्वादिव्यवहारबाह्यत्वेन सर्वविसंवादित्वेन साधुत्वस्कन्धोत्थापकत्वेन च सङ्घादिव्यवहाररहितत्वं ततस्तत्संबन्धिचैत्यानां प्रणतिनिषेधो न्याय्य एव । यथाऽन्यतीर्थीयपरिगृहीतानां पूर्वोक्तं वचनं च सङ्घादिव्यवहारबाह्यान् विहायान्यत्रैव प्रवर्तते । अन्यथाऽन्यतीर्थीयपरिगृहीतार्हच्चैत्यानामपि वन्द्यत्वापत्तेः, तच्चागमविरुद्धम् । न च वाच्यमन्ये यदि साधुव्यवहारयुक्तास्तहि ते वन्द्याः सन्तु इति । ते हि व्यवहारतो द्रव्यसाधवोऽपि उत्सूत्रभाषित्वान्नैव वन्द्याः, प्रसङ्गवासनासम्भवाद्यनेकदोषसम्भवात् । प्रतिमा तु नोत्सूत्रभाषिणीति, व्यवहारसाध्वादिप्रतिष्ठितेति च पुरातनैर्महापुरुषैः प्रणतेति च प्रणम्यत एव व्यवहारसाधुत्वं चामीषां भवताऽप्यङ्गीकर्त्तव्यमेव । इतरथा कापालिकाद्यर्थमाधाकर्मीकृतमशनादि भवतां कल्पते । एतदर्थं कृतं च भवतां न कल्पते तत्कथमित्यलं व्यासेन । कदाग्रहत्यागे सर्वं सुस्थमेवेति दिक् ॥
यदि त्रिविधाहार उपवासः प्रत्याख्यातस्तदा परिष्ठापनकं भक्तादि कल्पते । यदि चतुर्विधाहारः प्रत्याख्यातः पानकं च नास्ति ततो | न कल्पते । यदि पानीयमप्यधिकं ततो कल्पते । इति श्रीभाष्यावचूर्णी ।। ७८ ॥
||२७२|| खरतरा: श्रीअभयदेवसूरिरस्मत्पूर्वजः, इति वदन्ति परं तदसत्, श्रीभगवत्यादिवृत्त्यन्ते चन्द्रकुलस्यैवानीतत्वात् । सुविहिता महापुरुषाः