________________
लोक
विचार-1 रत्नाकरः।
विचारः .
1128011
वासासु सगदिणोवरि, पन्नरसदिणोवरिं च हेमंते । जायइ य सचित्तं से, गिम्हे मासोवरिं लोणं ।। इति व्यवहारनियुक्तौ ।। ४९ ॥
ननु इत्थं तावत्सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्तेत्याह-तिस्थकराइयपूअं, दृढणण्णेण वावि कज्जेण। सुअसामाइयलंभो, होइ अभव्वस्स गंठिमि ॥” इति विशेषावश्यके ॥ ५० ॥
अभिप्रायस्तूभयत्रापि सुगम एव । अथ केचित्साध्वीनां पृथग्विहारमुचितं मन्यन्ते, अपरे तु गृहस्थैः सह साध्वीनां विहारमुचितं मन्यन्ते ते उभयेऽपि सिद्धान्तबाह्या ज्ञेयाः । यथा
जत्थ य गोअम ! साहू, अज्जाहिं समं पहंमि अट्ठणा । अववाएणवि गच्छेज्जा, तस्थ गच्छंमि का मेरा ॥१॥ इत्यत्र यद्यष्टौनैः साधुभिरपि सह साध्वीनां गमनं नानुज्ञातं तर्हि कथं गृहस्थैः सह एकाकिनीनां वा विहर्तुं कल्पते ? इति बोध्यम् । इति श्रीमहानिशीथपञ्चमाध्ययने ॥५१॥ ___ अथायं लोकः कीदृशाकारः ? कथं च व्यवस्थित इति विचारो लिख्यते
वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिभः । अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः ॥ १०५ ॥ वृत्तिर्यथा-अधस्तादधोभागे वेत्रासनमधस्ताद्विस्तीर्णमुपर्युपरि सङ्कोचवत्तत्समस्तदाकारः । मध्यतो-मध्ये झल्लरीवाद्यविशेषस्तत्सदृशः । अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च सङ्कचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः । एवमधोमध्योर्वेषु आकारत्रययोगी लोकः । यदाहुः-तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम्, स्थालमिव तिर्यग्लोकम्, ऊर्ध्वमथमल्लकसमुद्गम्, । इह चावस्तिर्यगूर्ध्वलोका रुचकापेक्षया । रुचकश्च मेरुमध्ये गोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽधः, तादृश एवोर्द्ध, एवमष्टप्रदेशः । यदाहुः-" अट्ठ पएसो रुअगो, तिरियलोगस्स मज्झयारंमि । एस पहवो दिसाणं, एसेव भवे अणुदिसाणं ॥१॥” तत्र रूचकादध उपरि च नवयोजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः तिर्यग्लोकादधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्तपृथिव्य उक्तरूपाः ॥ ४ ॥ इति योगशास्त्रचतुर्थप्रकाशे १०५ श्लोकवृत्तौ १८१ पत्रे ॥
अथ का भूमिः ? कियदधः सचित्ता ? इति विचारो लिख्यते