________________
विचाररत्नाकर
1122911
संरम्भः, ततो यदा श्रुतव्यवहारिभिस्त्रि:कृत्व आलोचनाप्रदापनेनागमव्यवहारिभिः प्रथमवेलायामागमबलेन तस्य प्रतिकुञ्चितकौटिल्यं ज्ञातं भवति तदा तस्मिन् प्रतिकुञ्चिते ज्ञाते अश्वोपमा-अश्वदृष्टान्तः क्रियते यथा-आर्य ! शृणु तावदिदमुदाहरणम्-जहा कस्सवि रन्नो एगो अस्सो सव्वलक्खणसंजुत्तो धावणपवणसमत्थो, तस्स आसस्स गुणेणं अजेयो, सो राया सव्वे सामंतराइणो आणवेइ, ताहे सामंतराइणो अप्पप्पणो सभासु भणंति नत्थि कोइ एरिसो पुरिसो जो तं हरित्ता आणेइ, सव्वेहि भणियं सो पुरिसपंजरत्थो चिट्ठइ गच्छए वा न सक्का हरिउं, एगस्स रण्णो एगेण पुरिसेण भणियं-जइ सो मारेयव्वो तो मारेमि, ताहे रन्ना भणियं मा अम्हं तस्स वा भवउ घाएहत्ति, ततो सो तत्य गओ, तेणछन्नपदेसं ठिएण श्लक्ष्णाया ईषिकाया अग्रभागे क्षुद्रकंटकं प्रोतं कृत्वा दिक्करुयधणुएण मिल्लेइ तेण आसो विद्धो, ईषिका अश्वमाहत्य पतिता रिङ्गिणीकाकंटकोऽश्वशरीरेऽनुप्रविष्टः, ततो सो आसो तेण अव्वत्तसल्लेण परिहायइ पभूयगुणजोग्गासणमपि चरंतो, ततो विज्जस्स अक्खातो विज्जेण परिचिंतिऊण भणियं-नस्थि अण्णो कोइ रोगो अवस्समव्वत्तो कोइ सल्लो, ताहे विज्जेणं सो l आसो जमगसमगपुरिसेहिं चिक्खल्लेण आलिंपावितो, ततो जत्थ पढमं सुक्कं दिलृ तत्थ फालेत्ता अवणीतो सो क्षुद्रकंटकी सल्लो, जहा
सो आसो ससल्लो न सक्केइ सामंतरायाणो निज्जिणिउं पुव्वं एवं तुमंपि किरियाकलावं करेंतोवि संजमवुड्डिमकुव्वमाणो न कम्माणं जयं करेसि ता सव्वं सम्मं आलोएहि इति । यदि पुनर्न किमपि तस्य प्रतिकुञ्चितं ज्ञातं भवति तदा नासावश्वदृष्टान्तः क्रियते, स्वभावत एव तस्य सम्यगालोचकत्वात्, तस्य च शुद्धस्य मासिकं परिहारस्थानं प्राप्तस्य प्रायश्चित्तं भवति मासः, इतरस्य तु कृतप्रतिकुञ्चनस्य तच्चापन्नं मासिकं प्रायश्चित्तमिदं चान्यत् मायानिष्पन्नं मासगुरु, इति गाथार्थः । सम्प्रति यदुक्तं 'जह दंडियस्स' त्ति तद्विभावयति । अत्थुप्पत्ती असरिसनिवेयणे दंडो पच्छ ववहारो । इय लोयउत्तरम्मिवि, कुंचियभावं तु दंडंति ॥ १९ ॥ उत्पद्यते यस्मादिति उत्पत्तिः, अर्थस्योत्पत्तिरर्थोत्पत्तिः, अर्थश्चोत्पद्यते व्यवहारात् अर्थोत्पत्तिर्व्यवहार उच्यते तस्यामर्थोत्पत्तीकरणव्यवहारे असदृशनिवेदने दंडः, इयमत्र भावना-यथा कोऽपि पुरुषोऽपन्यायपीडितो राजकरणमुपस्थितो निवेदयति-अहं देवदत्तेन अपन्यायेन पीडितः ततः कारणिकाः पृच्छन्ति-कथमन्यायः
संवृत्तः ? सोऽकथयत् कथिते करणपतिब्रूते-पुनः कथय, ततो भूयः कथयति, ततः पुनरपि बूते भूयो कथय, तत्र यदि तिसृष्वपि वेलासु al सदृशं वक्ति ततो ज्ञायते यथाऽनेन यथावस्थितः सद्भाव: कथितः । अथ विसदृशं ततो जानाति करणपतिरेष प्रतिकुञ्च्य कथयति, ततः
क
||२२९॥