________________
प्रज्ञापना
रत्नाकर
विचाराः
पालख्यन्त
विचार
अनन्यसामान्यसुवर्णपूर्णं, सतां मन:कामितदं च तूर्णम् । भूयिष्ठरत्नं किल सप्रयत्न, श्रीजैनसिद्धान्तनिधिं श्रयध्यम् ।१॥ अथ प्रज्ञापनाविचारा लिख्यन्ते तत्र निंबानादिवृक्षाणां मूलपत्रादीनि यथा यावत्प्राणिप्रतिबद्धानि तथा लिख्यन्ते
णिबंबजंबुकोसंब-सालअंकोल्ल पीलु सेलू य । सल्लइमोयइमालुय, बउल पलासे करंजे य ॥ १॥ पुत्तंजीवयऽरिटे, बिहेलए हरिडए य भिल्लाए । उंबेभरिया खीरिणि, बोधव्वे धायइ पियाले ॥ २ ॥ पूइयनिंबकरंजे, सहा तह सीसवा य असणे य ।
पुन्नागनागरुक्खे, सीवन्नि तहा असोए य ॥ ३ ॥ जे यावन्ने तहप्पगारा, एएसि णं मूलावि असंखेज्जजीविया कंदावि खंदावि तयावि 119301 सालावि पवालावि पत्ता पत्तेयजीविया पुण्फा अणेगजीविया फला एगट्ठिया से तं एगट्ठिया ॥ इति । वृत्तिर्यथा- 'निंब' इत्यादिगाथा
त्रयम् । तत्र निंबाप्रजंबूकोशाम्बा:-प्रतीताः, शालः-सर्जः, 'अंकोल्ल' ति अङ्कोठः, प्राकृतत्वाच्च सूत्रे ठकारस्य लादेशः, 'अंकोठे ल्लः' (८-१-२००) इति वचनात्, पीलुः-प्रतीत शेल्लु-श्लेष्मातकः सल्लकी-गजप्रिया मोचकीमालुकौ च देशविशेषप्रतीतौ बकुल:केसरः पलास:-किंशुकः करञ्जो-नक्तमालः ॥ १॥ पुत्रजीवको-गोपगिरौ प्रसिद्धः अरिष्टः-पिचुमन्दः बिभीतकः-अक्षः हरीतक:कोकणदेशप्रसिद्धः कषायबहुलः भल्लातको-भल्लातकाभिधानानि फलानि लोकप्रसिद्धानि उम्बेभरिकाक्षीरणीघातकीप्रियालपूति (निम्ब) करञ्जश्लक्ष्णा-शिंशपाशनपुन्नाग-नागश्रीपर्ण्यशोका लोकप्रतीताः । 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा:एवंप्रकारास्तत्तद्देशविशषभाविनः ते सर्वेऽपि एकास्थिका वेदितव्याः, एतेषां-एकास्थिकानां मूलान्यप्यसङ्ख्येयजीवकानिअसङ्ख्येयप्रत्येकशरीरजीवात्मकानि, एवं कन्दा अपि स्कन्धा अपि त्वचोऽपि शाखा अपि प्रवाला अपि प्रत्येकमसङ्ख्येयप्रत्येकशरीरजीवकाः, तत्र मूलानि-यानि कन्दस्याऽधस्ताद्भूमेरन्तः प्रसरन्ति, तेषामुपरि कन्दाः ते च लोकप्रतीताः, स्कन्धाः-स्थुडाः त्वचः-छल्लयः शाला:
शाखाः प्रवाला:-पल्लवाङ्कराः, 'पत्ता पत्तेययजीविय'त्ति पत्राणि प्रत्येकजीवकानि-एकैकं पत्रमेकैकेन जीवेनाधिष्ठितमिति भावः, leel ' पुण्फा अणेगजीविय' ति पुष्पाण्यनेकजीवानि प्रायः प्रतिपुष्पपत्रं जीवभावात्, फलान्येकास्थिकानि । उपसंहारमाह-' से तं एगद्विया' सुगमम् । इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ २७ पत्रे ॥१॥
केचिच्च जातिप्रभृतिपुष्पाणां सङ्ख्यातजीवत्वेऽपि प्रतिमापूजनभयोत्पादनाय सामान्यतः पुष्पाणानन्तजीवत्वं वदन्तो जनान् विप्रतारयन्ति
119301