SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीश्रीयवृत्ती ॥२३७॥ प्राच्छाम्यहं ननु । परं जानाति ते भर्त्ता, यदि तन्मे न जीवितम् || २३१ ॥ सोचेऽहं निहनिष्यामि त्वत्प्रत्यक्षं निजं पतिम् । ततो निर्वापितो दीपः, स समेतश्च वह्नियुक् || २३२ उवाच च मयोद्योतो, दृष्टः सोचे त्वया प्रिय ! | स्वकरस्थं ज्वलद्वह्वयुद्योतो दृष्टो भविष्यति ।। २३३ ॥ खङ्गं तस्याः समप्र्येष, यावज्ज्वालयतेऽनलम् । तावदाकृष्य सा तस्य कण्ठे घातममुंचत ॥ २३४ ॥ कृपाणमपहस्त्यैष, कृपालुस्तमर्वचयत् । निजांगजानामाख्याय, तत्तादृक् चरितं स्वयम् ॥ २३५ ॥ एतद्विलसितं वीक्ष्य, निरपेक्षं सुदारुणम् । एते ममान्तिके पंचाप्यागुर्वेराग्यसंगताः || २३६ || आकर्येति स्वकं वृत्तं, सम्भ्रान्तो भूपभूर्हृदि । दध्यावहो महेलानां, चरित्रमतिदारुणम् ॥ २३७॥ विषव्याघ्राहिशार्दूलशर भार्कजरक्षसाम् । हेलयाऽऽभिर्महेलाभिश्चरितं त्वरितं जितम् ॥ २३८ ॥ तदहो अधमत्वं मे, यदस्याः कारणान्मया । अपकीर्त्तिरुरीचेक्र, कुलं च मलिनीकृतम् ॥ २३९ ॥ तावत् स्फुरति वैराग्यं, लज्जा शीलं कुलं यशः । दमो गुरुभ्यः शंका च, यावन्न स्त्रीवशो नरः || २४० || दृष्टनष्टाखिले द्रव्ये, सुखदुःखसमाकुले | द्राक् संयोगवियोगाट्ये, संसारे हि सुखं कुतः ॥ २४९ ॥ इत्यादि भावयन्नेष, परं सवेगमागमत् । नत्वाऽऽह भगवन्नेतच्चरितं निखिलं मम || २४२ || एतद्वन्धुनिहन्ताऽहमुद्विग्नो भववासतः । तद्दीक्षायाः प्रदानेनानुग्रहः क्रियतां मयि ॥ २४३ ॥ गुरुणा दीक्षितश्चैष, श्रामण्यं पर्यपालयत् । क्रमात् कर्म्मक्षयं कृत्वा, निर्वाणं च गमिष्यति ।। २४४ || अप्रमत्तोऽगडद तो, यथाऽयं सुखभागभूत् । भावतो यत|यस्तद्वल्लभन्ते परमं पदम् ॥ २४५ ॥ इत्थं सुन्दरभूपनन्दनमुनेर्गेहस्थितिर्द्रव्यतस्तेन । स्तेनभगिन्यवञ्चनफलां मत्वा रतिमास्थिताम् ॥ २४६ ॥ बोधस्यावसरे तु भावत इमां प्रेमावनद्धप्रियां, मोहदुच्छिदुरां महात्रतफलां कः स्यात् प्रमत्तो मुनिः १ ॥ २४७ ॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । मोहक्षितिरुहोच्छेदा, नवमी द्वारपूर्यत ॥ २४८ ॥ अप्रमत्तत्वे अगडदत्तः ॥ २३७॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy