________________
उपोद्घातः।
अलकारसूत्रं, तस्य वृत्तिः, वृत्ताख्यानमित्येतत्रितयमस्मिन् पुस्तके निवेशितम् । तत्र काव्यमालाप्रकाशितपुस्तके
"निजालङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते" इति चिकीर्षितप्रतिज्ञावाक्ये दृष्टस्य निजशब्दपाठस्यानुसारात् सूत्रवृत्त्योरेकः प्रणेतेति, तत्र ‘सम्पूर्णमिदम् अलङ्कारसर्वस्वम्' इति सामान्येन कथनात् सूत्रवृत्त्योः समुदायः अलङ्कारसर्वस्वम् इति च प्रसिद्धिः । तत्पुस्तकान्ते 'कृतिस्तत्रभवद्राजानकरुय्यकस्य' इति पाठाद् अलङ्कारसर्वस्वस्य प्रणेता रुय्यकः प्रतीतः।
किन्तु अतिस्थविरेष्वस्मदीयादर्शग्रन्थेषु चिकीर्षितप्रतिज्ञावाक्ये
“गुर्वलकारसूत्राणां वृत्त्या तात्पर्यमुच्यते" इति निजशब्दस्थाने गुरुशब्दपाठस्यैव दर्शनाद् वृत्तिकारस्य गुरुः सूत्रकार इति गम्यते । ग्रन्थान्ते च
"इति *मखुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः ।
सुकविमुखालकारं तदिदमलङ्कारसर्वस्वम् ॥" . इत्यार्यया पठितया मख़ुकोऽलङ्कारसर्वस्वस्य कर्ता प्रख्यायते। व्याख्याता च समुद्रबन्धः स्वव्याख्याविषयभूतं वृत्तिग्रन्थम् अलङ्कारसर्वस्वं व्यपदिशति, मञ्जुकपणीतमाचष्टे, गुरुशब्दपाठमेव चोपादत्ते ।
तदेवम् अलङ्कारसर्वस्वं प्रति कर्तृप्रथोभयथा प्रवृत्तेत्यवगम्यते । सोऽयं रुय्यकमख़ुकयोरलङ्कारसर्वस्वकर्तृत्वव्यवहारः विना ग्रन्थसम्बन्धं ___* मखक इति न्याय्ये संज्ञाशब्दे मख़ुक इत्युकारो व्यवहारवशादुपजातो नूनम् अप्पय्यादिसंज्ञाशब्देषु यकारद्वित्वादिवदिति मङ्खक एवेह मख़ुको व्यपदियो बेदितम्यः। । १, २. पृष्ठे द्रष्टव्ये ।