SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ४ अध्यायः] काव्यालंकारः। ध्यानमदा मन्त्रिप्राया उच्यन्ते । धवलयेन कर्मकौशलेन तिरोहिता न्यकता अनवमध्यानमदा यैस्ते तथा ते च तेऽहिताश्च शत्रवस्तेषु स्तनिते शब्दिते । अन्योऽप्यत्र यदि भङ्गः संभवति सोऽपि तद्विदा विचार्य कर्तव्य एव ॥ अथ लिङ्गश्लेषः स्त्रीपुंनपुंसकानां शब्दानां भवति यत्र सारूप्यम् । लघुदीर्घत्वसमासैर्लिङ्गश्लेषः स विज्ञेयः ॥ ८॥ स्त्रीपुमिति । यत्र स्त्रीपुनपुंसकलिङ्गानां सारूप्यं भवत्यसौ लिङ्गश्लेषः । कैः कृत्वा । लघुदीर्घत्वसमासैरिति क्वचिद्दीर्घस्य लघुत्वेन । ह्रखत्वेनेत्यर्थः । क्वचिद्भवस्य दीर्घत्वेन क्वचित्समासेन चेति ॥ उदाहरणम् देवी मही कुमारी पद्मानां भावनी रसाहारी । सुखनी राज तिरोऽहितमहिमानं तस्य सद्धारी ॥९॥ देवीति । कश्चिद्राजानमाशास्ते-त्वं राज शोभव । तथा तिरश्चीनं यथा भवत्येवमहितं शत्रु तस्य क्षयं नय । 'तसु उपक्षये' इत्यस्य रूपम् । कीदृशस्त्वम् । दीव्यतीति देवी क्रीडारतः, मही उत्सववान् , कुत्सितांश्चौरादीन्मारयतीति कुमारी । अथवा कु: पृथ्वी मारः कामस्तौ विद्येते यस्य स कुमारी । तथा पद्मानां श्रियां भावं सत्तां नयति भृत्येष्विति भावनी । सेवकानां लक्ष्मीप्रद इत्यर्थः । रसां भुवमाहरत्यात्मसात्करोतीति रसाहारी । यदि वा रसैर्मधुरादिभिराहरतीति रसाहारी । सुखं नयति भृत्यानिति सु. खनीः, सतः शिष्टान्धारयति पोषयतीति सद्धारी, शोभनहारवान्वा । कीदृशम् । अहितमहिमानमहेव॒त्रस्येव मानोऽहंकारो यस्य तं तथाविधम् । अयमेकस्य वाक्यस्यार्थः ॥ अपरस्य तु–मही पृथ्वी राजति शोभते । देवीति पूजापदम् । कीदृशी मही । कुमार्यकृतविवाहा नित्यतरुणी वा । पद्मानां नलिनानां भावन्युत्पादिका । रसाञ्जलादीनाहरति गृह्णातीति । 'कर्मण्यणन्तादी' । सुखनिः शोभनाकरा । तथानन्तस्य शेषस्य रोहित आरोपितो महिमा माहात्म्यं यया । खयमात्मधारणे शक्तयाप्यनन्तस्य लोके माहात्म्यख्यापनार्थमात्मभरस्तयार्पित इत्यर्थः । सद्विद्यमानं वस्तुजातं धरतीति । 'कर्मण्यणन्तादी।' देवीत्यादौ दीर्घत्वे रसाहारीत्यादौ दीर्घत्वे समासे च सारूपं दीर्घस्य । ह्रखत्वं त्वन्यत्र स्वधिया द्रष्टव्यम् ॥ अथ भाषाश्लेषः यस्मिन्नुच्चार्यन्ते सुव्यक्तविविक्तभिन्नभाषाणि । वाक्यानि यावदर्थ भाषाश्लेषः स विज्ञेयः ॥ १० ॥ यस्मिन्निति । यत्र यावदर्थे कवेर्यावन्तोऽर्था विवक्षितास्तावन्ति वाक्यान्युच्चार्यन्ते स
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy