________________
१६ अध्यायः काव्यालंकार।
य इति । सुगमं न वरम् । सुरादिमुख्यैः सुरादिप्रधानैः। आदिशब्दात्सिद्धविद्याधरकिंनरगन्धर्वादिसंग्रहः ॥ .. .... ननु च सत्त्वचित्तादिहीनत्वान्मनुष्याणां कथं सुरादिभिः सह सजोऽपीत्साह
शक्तिश्च न जात्वेषामसुरादिवधेऽधिका सुरादिभ्यः ।।
आसीत्ते हि सहाया नीयन्ते स्मामरैः समिति ॥ ३९ ॥ शक्तिरिति । सुगमं न वरम् । चशब्दो हेतौ ॥ . . भूयोऽप्याह
दारिद्यव्याधिजराशीतोष्णाझुद्भवानि दुःखानि ।
बीभत्सं च विदध्यादन्यत्र न भारताद्वर्षात् ॥ ४०॥ दारिद्येति । सुगमं न वरम् । भारतं भरतक्षेत्रम् ॥ अन्यत्र त्विलावृतादौ कुतो न विदध्यादित्याह
वर्षेष्वन्येषु यतो मणिकनकमयी मही हितं सुलभम् ।
विगताधिव्याधिजराद्वन्द्वा लक्षायुषो लोकाः ॥ ४१ ॥ वर्षेष्विति । सुगमं न वरम् । द्वन्द्वानि-शीतोष्णादीनि ॥ अथ शास्त्रपरिसमाप्तिमङ्गलाथै देवताः संकीर्तयन्नाह
जयति जनमनिष्टादुद्धरन्ती भवानी
जयति निजविभूतिव्याप्तविश्वो मुरारिः । जयति च गजवक्त्रः सोऽत्र यस्य प्रसादा
दुपशमति समस्तो विघ्नवर्गोपसर्गः ॥ ४२ ॥ जयतीति । सुगमम् ॥
एवं रुद्रटकाव्यालंकृतिटिप्पणकविरचनात्पुण्यम् । यदवापि मया तस्मान्मनः परोपकृतिरति भूयात् ॥ थारापद्रपुरीयगच्छतिलकः पाण्डित्यसीमाभव
सूरिभूरिगुणैकमन्दिरमिह श्रीशालिभद्राभिधः । तत्पादाम्बुजषट्पदेन नमिना संक्षेपसंप्रेक्षिणः
पुंसो मुग्धधियोऽधिकृत्य रचितं सट्टिप्पणं लध्वदः॥ अज्ञानाद्यद्वितथं विवृतं किमपीह तन्महामतिभिः । संशोधनीयमखिलं रचिताजलिरेष याचेऽहम् ॥