________________
काव्यमाला।
महाकाव्यलक्षणमाख्याय कथालक्षणमाह
श्लोकैर्महाकथायामिष्टान्देवान्गुरून्नमस्कृत्य ।
संक्षेपेण निजं कुलमभिदध्यात्वं च कर्तृतया ॥ २० ॥ श्लोकैरिति । सुगमं न वरम् । संक्षेपेण निजं कुलमभिदध्यात् । न खाख्यायिकायामिव विस्तरेण । खं चेति चकारोऽनुकसमुच्चये। तेन सुजनखलस्तुतिनिन्दादिकं चाभिदध्यादिति सूच्यते ॥ ततश्च
सानुप्रासेन ततो भूयो लध्वक्षरेण गधेन ।
रचयेत्कथाशरीरं पुरेष पुरवर्णकप्रभूसीन् ॥ २१ ॥ सानुप्रासेनेति । सुगम न वरम् । भूयो सध्वक्षरेण ॥ प्रकारान्तरमाह
आदौ कथान्तरं वा तसां न्यस्येत्प्रपधितं सम्यक् ।
लघु तावत्संधानं प्रक्रान्तकथावताराय ॥ २२॥ आदाविति । गतार्थे न वरम् । लघु तावत्संधानं लाघवयुकं संधानं यत्र कथान्तरे। अथवादौ तावत्कथान्तर न्यस्येत् । ततो लघु शीघ्र प्रकान्तकथावताराय संधानमिति । यथा कादम्बयाम् ॥ तथा
कन्यालाभफलां वा सम्यग्विन्यस्तसकलशृङ्गाराम् ।
इति संस्कृतेन कुर्यात्कथामगद्येन चान्येन ॥ २३ ॥ कन्येति । वाशब्दः पक्षान्तरसूचकः । तेन राज्यलाभादि फलमपि क्वचित् । सम्यग्विन्यासकलशृङ्गारामित्यनेन शृङ्गारस्तत्र प्राधान्येन निबन्धनीय इत्युक्तं भवति । इ. देवं संस्कृतेम को कुर्यात् । अन्येम प्राकृतादिभाषान्तरेण खगयेन गाथामिः प्रभूत कुर्यात् । चकाराद्द्यमपि किंचिदित्यर्थः ॥ आख्यायिकालक्षणमाह
पूर्ववदेव नमस्कृतदेवगुरुनोत्सहेरिखतेष्वेषु । काव्यं कर्तुमिति कवीन्शंसेदाख्यायिकायां तु ॥ २४॥ तदनु नृपे वा भक्ति परगुणसंकीर्तनेऽथवा व्यसनम् ।
अन्पदा तत्करणे कारणमक्किटमभिदध्यात् ॥ १५॥ पूर्ववदिति । तदन्विति । सुगमम् ॥