________________
१४ अध्यायः] काव्यालंकारः।
१६३ मृदुरत्र यथा पूर्व सर्वेषु यथोत्तरं तथा बलवत् ।
साध्येत यो न मृदुना बलवांस्तत्र प्रयोक्तव्यः ॥ ३२ ॥ सुगमम् ॥ अथ प्रवासमाह
यास्यति याति गतो यत्परदेशं नायकः प्रवासोऽसौ ।
एष्यत्येत्यायातो यथर्ववस्थोऽन्यथा च गृहान् ॥ ३३ ॥ यास्यतीति । सुगमं न वरम् । यथर्ववस्थ इति ऋत्वनतिक्रमेणावस्था दशा प्रत्यात्तिव्यवस्था वा यस्य स तथाभूतः । अन्यथा चेति ऋतुविवक्षामन्तरेणेत्यर्थः ॥ अथ करुणमाह
करुणः स विप्रलम्भो यत्रान्यतरो म्रियेत नायकयोः।
यदि वा मृतकल्पः स्यात्तत्रान्यस्तद्गतं प्रलपेत् ॥ ३४ ॥ करुण इति । सुगमं न वरम् । नायको म्रियते नायिका वा, तथा नायको मृतकल्पो नायिका वा भवतीति चत्वारः प्रकाराः ॥ अथ यस्तत्रैको जीवति तस्य सदृशचेष्टो जनो भवतीत्याह
सर्वेष्वेषु जनः स्यात्स्रस्तावयवो विचेतनो ग्लानः ।
अच्छिन्ननयनसलिलः सततं दी?ष्णनिःश्वासः ॥ ३५ ॥ सर्वेष्विति । सुगमं न वरम् । सर्वेष्विति चतुर्वपि करुणप्रकारेविति रसोत्पत्तिश्च विभागभावानुभावसंयोगाद्भवति । तत्र शृङ्गारे विभागः संभोगविप्रलम्भादिकः । भावस्तु स्थायी रतिः । इतरतु निर्वेदादिः । अनुभावस्तु 'तत्र भवन्ति स्त्रीणाम्' (१३।२) इत्यादिनोक्तः । एवं वीरादिष्वपि योज्यम् ॥ अन्योन्यानुरक्तपुंनार्योः शृङ्गारोऽन्यथात्वे तु शृङ्गाराभास इत्याह
शृङ्गाराभासः स तु यत्र विरक्तेऽपि जायते रक्तः ।
एकस्मिन्नपरोऽसौ नाभाष्येषु प्रयोक्तव्यः ॥ ३६ ॥ शृङ्गाराभास इति । सुगमं न वरम् । आभाष्येषूत्तमेष्वसौ न प्रयोक्तव्यः ॥ अथात्र रीतीनामनुप्रासवृत्तीनां चावसरे विषयविभागमाह
इह वैदर्भी रीतिः पाञ्चाली वा विचार्य रचनीया ।
मधुराललिते कविना कार्ये वृत्ती तु शृङ्गारे ॥ ३७ ॥ इहेति । सुगमम् ॥ अथाध्यायमुपसंहरन्सर्वरसेभ्यः शृङ्गारस्य प्राधान्यं प्रचिकटयिषुराह
अनुसरति रसानां रस्यतामस्य नान्यः
सकलमिदमनेन व्याप्तमाबालवृद्धम् ।।