SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अथ शक्तिखरूपमाहमनसि सदा सुसमाधिनि विस्फुरणमनेकधाभिधेयस्य । अक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥ १५॥ मनसीति । असौ शक्तिर्यस्यामविक्षिप्ते चेतसि सदानेकप्रकारस्य वाक्यार्थस्य विस्फु. रणम् । यस्यां चाक्लिष्टानि झगित्येवार्थप्रतिपादनसमर्थानि पदानि प्रतिभान्ति । यदशावृदयंगमौ नानाविधौ शब्दार्थों प्रतिभासेते सा शक्तिरित्यर्थः ॥ अस्या एव भेदानाह प्रतिभेत्यपरैरुदिता सहजोत्पाद्या च सा द्विधा भवति । पुंसा सह जातत्वादनयोस्तु ज्यायसी सहजा ॥१६॥ प्रतिभेति । एषा च शक्तिरपरैर्दण्डिमुख्यैः प्रतिभेत्युक्ता । सा च द्विधा भवति । कथम् । सहजोत्पाद्या चेति । तयोश्च मध्यात्सहजा ज्यायसी प्रशस्यतरा । पुंसा सहोत्पन्नत्वात् ॥ यदि नाम पुंसा सहोत्पन्ना किमित्येतावता ज्यायसीत्याह खस्यासौ संस्कारे परमपरं मृगयते यतो हेतुम् । उत्पाद्या तु कथंचियुत्पत्त्या जन्यते परया ॥ १७ ॥ खस्येति । असौ सहजा शक्तिः स्वस्यात्मनः संस्कार उत्कर्ष एव परं केवलम् । अविद्यमानः परोऽन्यो यस्मादसावपरोऽभ्यासस्तं यतो मृगयतेऽन्वेषयति नोत्पत्तावतो ज्यायसी । उत्पत्तौ तु सहजातत्वमेव हेतुः । उत्पाद्या तु व्युत्पत्त्या परयानन्तरया कथं चिन्महता कष्टेन जन्यते । अतो न ज्यायसी सा ॥ इदानीं व्युत्पत्तिस्वरूपमाह छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात् । युक्तायुक्तविवेको व्युत्पत्तिरियं समासेन ॥ १८ ॥ छन्द इति । छन्दो जयदेवादि, व्याकरणं पाणिन्यादि, कला नृत्यादिविषयभरता. दिप्रणीतशास्त्राणि, लोकाः स्वःप्रभृतयस्तेषु चराचरादिस्वरूपनियमः स्थितिः, पदानि नाममालापठिताः पर्यायशब्दाः, पदार्थस्तेषामेव पदानामभिधेयार्थविषयप्रवृत्तिनैयत्यम् । एतेषां षण्णां छन्दःप्रभृतीनां विज्ञानाद्विशिष्टावगमाद्धेतोर्यो युक्तायुक्तविवेक उचितानुचितत्वपरिज्ञानम् । यथात्रेदं छन्द उचितमनुचितं वेत्यादि सर्वेषु द्रष्टव्यम् । व्युत्पत्तिरियम् । समासेन संक्षेपेण ॥ तर्हि विस्तरव्युत्पत्तेः किं स्वरूपमित्याह विस्तरतस्तु किमन्यत्तत इह वाच्यं न वाचकं लोके। न भवति यत्काव्यानं सर्वज्ञत्वं ततोऽन्यैषा ॥ १९ ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy