________________
एषः। (१५) 'महब्बले त्ति यथा भगवत्यां महाबलस्तथाऽयं वाच्यः । तत्र च यद्वक्तव्यं तद्गाथया दर्शयति । (१६-१७) 'सुमिणहंसण-कहणे'त्ति स्वप्नदर्शनं स्वप्ने सिंहदर्शनमित्यर्थः; 'कहणे ति 'कथना'; स्वप्नस्य राजे निवेदना । जन्म दारकस्य । बालत्वं तस्यैव । एवमादि सर्वमस्य तदक्षरं महाबलवद्वक्तव्यम् । अस्ति परं विशेषः 'अट्टओ दाओत्ति परिणयनानन्तरमष्टौ हिरण्यकोटीरित्यादि 'दाओ'त्ति दानं वाच्यं । [ पृष्ट० ४. ]
(१) 'तए ण 'मित्यादौ तस्य गौतमस्य 'अय. मेयारूवे अब्भत्थिए [४] संकप्पे समुप्पजित्था' इत्यादि सर्व यथा मेघकुमारस्य प्रथमज्ञाते उक्तं तथा वाच्यम् । अत एवाह (२) 'जहा मेहे तहा निग्गए धम्म सोच्चा' इत्यादौ सर्वत्रोचितक्रियाऽध्याहारो वाच्यो मेघकुमारचरितमनुस्मृत्येति । (१६-१७) एवं सर्व गौतमाख्यातकं भगवतीप्रतिपादितस्कन्दककथानकसमानं तदनुसारेण सनिगमनं वाच्यमिति,नवरं भिक्षुप्रतिमा एवम्-एकमोसपरिमाणा एकमासिकी एवं द्वयादिसप्तान्तमासपरिमाणा द्विमासिक्याद्याः सप्तमासिक्यन्ताः, तथा सप्तरात्रिंदिवप्रमाणाः प्रत्येक सप्तरात्रिंदिवास्तिस्रः अहोरात्रिकी एकरात्रिकी चेति, स्वरूप चासां विशेषेण दशाश्रुतस्कन्धादवसेयं । (१७) तथा गुणरत्नसंवत्सरं तपः एवंरूपं, तत्र हि प्रथमे मासे निरन्तरं चतुर्थ तपः, दिवोत्कटुकस्य सूराभिमुखस्यावस्थानं रात्रौ वीरासनेनाप्रावृतस्य, एवमेव द्वितीयादिषु षोडशावसानेषु मासेषु षष्ठभक्तादि चतुविंशत्तमभक्तपर्यन्तं तप इति ।