SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ૬૪૮ साहित्यसारम् । [उत्तरार्षे स्फिचौ वलिविनिर्मुक्तौ रतिसौख्यविवर्धनौ २१ शुभः कमठपृष्ठाभो गजस्कन्धोपमो भगः । वामोन्नतस्तु कन्याजः पुत्रजो दक्षिणोन्नतः २२ आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः । तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः२३ भगस्य भालं जघनं विस्तीर्णतुङ्गमांसलम् । मृदुलं मृदुरोमाढ्य दक्षिणावर्तमीडितम् २४ गभीरा दक्षिणावर्ती नाभिः स्यात्सुखसंपदे । सूते सुतान्बहून्नारी पृथुकुक्षिः सुखास्पदम् २५ समैः समासमुंदुभिर्योषिन्मनास्थिभिः शुभैः । पाश्र्वैः सौभाग्यसुखयोर्निधानं स्यादसंशयम् २६ उदरेणातितुच्छेन विशिरेण मृदुत्वचा । योषिद्भवति भोगाढ्या नित्यं मिष्टान्नसेविनी २७ निर्लोम हृदयं यस्याः समं निम्नत्ववर्जितम् । ऐश्वर्य चाप्यवैधव्यं प्रियप्रेम च सा लभेत् २८ अष्टादशाङ्गुलततमुरः पीवरमुन्नतम् । सुखाय दुःखाय भवेद्रोमशं विषमं पृथु २९ घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ । स्थूलाग्रौ विरलौ शुष्कौ वामोरूणां न शर्मदौ ३० दक्षिणोन्नतवक्षौजा पुत्रिणीष्वग्रणीमता । वामोन्नतकुचा सूते कन्यां सौभाग्यसुन्दरीम् ३१ सुदृशां चूचुकयुगं शस्तं श्यामं सुवर्तुलम् । अन्तर्मग्नं च दीर्घ च कृशं क्लेशाय जायते ३२ पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः । निगूढसंधी शस्ताग्रौ शुभावंसौ सुसंहतौ ३३ स्यातां दोषौ सुनिर्दोषौ गूढास्थिग्रन्थिकोमलौ । विशिरौ च विरोमाणी सरलौ हरिणीदृशाम् ३४ अम्भोजमुकुलाकारमङ्गुष्ठाङ्गुलिसंमुखम् । हस्तद्वयं मृगाक्षीणां बहुभोगाय जायते ३५ मृदुमध्योन्नतं रक्तं तलं पाण्योररन्ध्रकम् । प्रशस्तं शस्तरेखाव्यमरूपरेखं शुभश्रिये ३६ विरोम विशिरं शस्तं पाणिपृष्ठं समुन्नतम् । रक्ता व्यक्ता गभीरा च स्निग्धा पूर्णा च वर्तुला ३७ कररेखाङ्गनायाः स्याच्छुभा भाग्यानुसारतः । मत्स्येन सुभगा नारी खस्तिकेन वसुप्रदा ३८ प न भूपतेः पत्नी जनयेद्भूपतिं सुतम् । शुभदः सरलोङ्गुष्टो वृत्तो वृत्तनखो मृदुः ३९ अङ्गुल्यश्च सुपर्वाणो दीर्घा वृत्ताः क्रमात्कृशाः । अरुणाः सशिखास्तुङ्गाः करजाः सुदृशां शुभाः ४० नखेषु बिन्दवः श्वेताः प्रायः स्युः खैरिणीस्त्रियाः । पुरुषा अपि जायन्ते दुःखिनः पुष्पितैर्नखैः४१अन्तर्निममवंशास्थिपृष्ठिः स्यान्मांसला शुभा । पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम् ४२ मांसलो वर्तुलः कण्ठः प्रशस्तश्चतु ङ्गुलः । शस्ता ग्रीवा त्रिरेखाङ्का त्वव्यक्तास्थिः सुसंहता ४३ हनुश्चिबुकसंलग्ना निर्लोमा सुघना शुभा । शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ ४४ समं समांसं सुस्निग्धं स्वामोद वर्तुलं मुखम् । जनि. तुर्वदनच्छायं धन्यानामेव जायते ४५ पाटलो वर्तुलो स्निग्धो रेखाभूषितमध्यभूः । १ 'कूर्मपृष्ठवनिबिडः'। २ 'उन्नतः'। ३ 'कन्याजनकः'। ४ 'पुत्रजनकः' । ५ 'आखूनां मूषकौणामिव पिङ्गलानि रोमाणि यस्य स तथा'। ६ 'गूढो मणिरिव मणिवैराङ्गत्वान्मध्यभागविशेषो यस्य स तथा । सुश्लिष्टः सुनिबिडः संहतो दृढः पृथुविस्तीर्णः कमलपर्णाभः पद्मपत्राकारः। कमलवर्णाभ इति क्वचित् । कमलगीभ इति चान्यत्र'।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy