________________
[ उत्तरार्ध
५४६
साहित्यसारम् । श्रोत्रादीष्टाप्तितस्तृप्तिः कामः सामान्यतो मतः। या तु स्पर्शविशेषेण प्राधान्यात्स तथा मतः॥ १३ ॥ हस्तगस्यापि धान्यस्य भुवि त्यागोऽभिवृद्धये । दृष्टो वृष्टयादिसामर्थ्यात्तस्माद्धर्म समाचरेत् ॥ १४ ॥ कामाद्रुद्रादिनाशस्तु धर्मप्रत्यर्थिनोऽभवत् ।
धर्माविरुद्धः कामस्तु श्रुतिस्मृत्योर्विमुक्तिदः ॥१५॥ अर्थ कामं च यौवने । स्थाविरे धर्म मोक्षं च । अनित्यत्वादायुषो यथोपपाद्यं वा सेवेतेति । विद्याग्रहणादीनित्यादिपदाभिप्रेतमपि तत्रैव । “विद्याभूमिहिरण्यपशुधान्यभाण्डोपस्करमित्रादीनामर्जनमर्जितस्य च रक्षणं रक्षितस्य विवर्धनमर्थः' इति। एतेन सप्तविधस्यार्थसंज्ञकपुमर्थस्यापि खरूपमुक्तमित्यभिप्रेत्याह-विद्येति । मित्रादीत्यत्रादिना । 'अत्यागसहनो बन्धुः सदैवानुगतः सुहृत् । एकक्रियं भवेन्मित्रं समप्राणः सखा मतः' इत्यन्यत्रोक्तलक्षणबन्ध्वादय एव ॥ १२ ॥ एवं क्रमागतं काममपि सामान्यविशेषाभ्यां लक्षयति-श्रोत्रादीति । आदिना वगादिज्ञानेन्द्रियाण्येव । यात्विति । तुशब्दः पूर्ववैलक्षण्यार्थः । स्त्रीपुंसयोः परस्परं स्पर्शविशेषेण या तृप्तिः स तु प्राधान्यात्तथा कामाख्यपुरुषार्थत्वेन मतः प्राचीनाचार्यसंमतोऽस्तीति योजना । एतदप्युकं कामसूत्रएव-'श्रोत्रत्वक्चक्षुजिह्वाघ्राणानामात्मसंयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः । स्पर्श विशेषविषयित्वादाभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिप्राधान्यात्कामः' इति ॥१३॥ ननूभयोरप्यनयोर्धमैकसाध्यत्वात्स कथं वात्स्यायनी. येऽत्र वार्धक्ये साध्य इति चोक्त इतिचेन ।तत्रैवाग्रे अनित्यत्वादित्यादिनोक्तपक्षस्य परित्यागादित्याशय्याह-हस्तेति । एतदप्युक्तं तत्रैव 'हस्तगतस्य च बीजस्य भविष्यतः सस्यस्यार्थे भूमौ त्यागदर्शनाचरेद्धर्मानिति वात्स्यायनः' इति । अयं भावः । अवग्रहनाशार्थ तत्र कारीयों साङ्गायां कृतायां तया तन्नाशतो वृष्टया सस्योत्कर्ष इति ॥ १४ ॥ ननु सद्यः खपरसंतोषकरत्वेन दृष्टफलत्वादर्थेन काम एव साध्यः किं धर्मेणेत्यत आह-कामादिति । अतएवाह वात्स्यायनोपि 'पाक्षिकत्वात्प्रयोगाणामपायानां च दर्शनात् । धर्मार्थयोश्च वैलोम्यानाचरेत्पारदारिकम्' इति । नन्वेवं तर्हि 'ऋतौ भार्यामुपेयात्' इत्यादिविधेः का गतिरित्यत्राह-धर्मेति । श्रुतीति । एवंचं तुशब्दः पूर्वार्धोक्तेन्द्ररावणदुर्योधनादीनां अहल्यादिपरकीयाविषयककामवैलक्षण्यार्थः । तेन 'ऋतौ भार्यामुपेयात्' इति श्रुत्या विहितकामस्य स्वकीयाविषयकत्वेन धर्माविरुद्धत्वात्तादृशस्त्वसौ 'प्रजातिरमृतमानन्द इत्युपस्थे' इति तैत्तिरीयश्रुतौ 'धर्माविरुद्धो भूतेषु कामोस्मि भरतर्षभ' इति भगवद्गीतास्मृतौ चानुष्ठातृणां चित्तशुद्ध्यादिद्वारा विमुक्तिद एवोक्त इत्यन्वयः। तस्मात्स्वकीयाविषयक एव कामो विधिशास्त्रविषयकत्वेन सर्वथा हितैषिभिरुपादेय एव परकीयादिविषयकस्त्वसौ कालत्रयेपि हेय एवेति भावः ॥ १५ ॥