SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५४४ साहित्यसारम् । [ उत्तरार्धे स्वीया तु मुग्धमध्याढ्यावस्थाभेदासु दृक् त्रिधा । लतेवाङ्कुरतः पुष्पात्फलाच्चात्मरतेरपि ॥ ८॥ जालं सत्ताप्रकाशवत्तया साधयतीति तथा। आदिना शुक्तिरजतादिप्रातिभासि. कसत्ताप्रकाशसाधिका चिदेव ग्राह्येत्याशयः । गोपनं वत्र तस्याधिष्ठानतत्वाव. धृतिमृतेऽमिथ्यार्थत्वसंप्रथनमेवेति भावः । एवं परकीयामुदाहृत्यावसरप्राप्तां सामान्यां जगत्यमान्यत्वेनैव प्रसिद्धत्वाद्विशेषतोऽनुदाहृत्यैव तामुदाहरति-सामाः न्येत्यर्धेनैव । पक्षे चिज्जडोभयानुगतचिदेव सामान्यसुदृगित्येव प्रागुपन्यस्तं सा तु जगत्यहं भामि घटो भातीत्याद्यनुभवाद्भशं प्रथितापि विना विचारं चेतनजडानुगततृतीयचित्त्वेनामान्यैवास्तीति संबन्धः ॥ ७ ॥ अथ सिंहावलोकनन्यायेन खकीयामेव पुनरनुसंधाय सकलपुमर्थनिधानत्वेन भूरि प्रपञ्चयितुमवस्थामात्रभे. दात्तत्रैविध्यं विधत्ते-स्वीयात्विति । तुशब्दः पूर्ववैलक्षण्यार्थः । आत्यवं प्रागल्भ्यमेव । एवंच खीया तु सुदृक् । मुग्धेत्यादि । आत्मेति । आत्मवद्या पत्यौ रतिः प्रीतिस्तस्या इत्यर्थः । अपि: संभावनार्थः । 'गर्हासमुच्चयप्रश्नशङ्कासं. भावनाखपि' इत्यभिधानात् । लतेव द्राक्षादिवल्लीव । अङ्कुरतः पुष्पात्फलाच त्रिधा त्रिप्रकारा भवतीत्यन्वयः । प्रतिपादितं चेदं रसमञ्जर्याम्-स्वकीया तु त्रिधा मुग्धा मध्या प्रगल्भा चेति । सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति साहित्यदर्पणेपि । अत्र लतादिदृष्टान्तेनाङ्करितात्मरतिवं मुग्धात्वम्, पुष्पितात्मरतित्वं मध्यात्वम्, फलितात्मरतित्वं प्रगल्भात्वं चेति तासां लक्ष. णान्यपि संक्षिप्तानि भवन्ति । अङ्कुरितत्वमपि बलवत्प्रतिबन्धकासत्वेऽवश्यखकार्यजननयोग्यत्वम् । एवं पुष्पितत्वेऽपि बोध्यम् । फलितत्वं फलजननशू. न्यत्वे सति संपूर्णरूपत्वमेव । पक्षे खीया तु सदृक् प्रागुपन्यस्तरीत्या चेतनत्वावच्छेदकावच्छिन्ननिष्ठचिद्विषयकचरमप्रमारूपा अद्वैतब्रह्मविद्येत्यर्थः । तुशब्दः पूर्ववैलक्षण्यार्थः । लतेवाम्रादिलतेव । आत्मरतेः । 'आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः' इति श्रुतेः। 'यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। मात्मन्येव च संतुष्टस्तस्य कार्य न विद्यते' इति स्मृतेश्च सुविचारितखशाखीयस. दुरूपदिष्टब्रह्मात्मैक्यलक्षणार्थविषयकसाक्षात्कारानन्तरमधिकारिणः खतो व्युत्थानप्रभृतिलक्षणजीवन्मुक्तेरिति यावत् । अङ्कुरतः खतो व्युत्थानश लित्वरूपपञ्चम. भूमिकात इत्यर्थः । अपिः समुच्चये। तथा पुष्पात् परतो व्युत्थानशालित्वरूपषष्ठभूमिकात इति यावत् । तथा फलादपि । चोऽप्यर्थे । पुनर्युत्थानीभावशालिसप्तमभूमिकात इत्यर्थः । अपिः समुच्चये। क्रमात् मुग्धेति । मुग्धा च मध्या च आन्या प्रौढा चेति मुग्धमध्याह्यास्ताश्च ता अवस्थाश्चेति तथा तासां यो भेदस्तस्माद्धेतोरिति यावत् । त्रिधा त्रिप्रकाराऽस्तीति संबन्धः। एवंच ब्रह्मविद्या हि पञ्च. मभूमावङ्कुरितात्मरतित्वेन मुग्धा षष्ठभूमौ पुष्पितात्मरतित्वेन मध्या सप्तमभूमौ फलितात्मरतित्वेन प्रगल्भा च खीयेव त्रिधा त्रिप्रकारा भवतीति भावः ॥ ८॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy