________________
रम्भारत्नम् १०] सरसामोदव्याख्यासहितम् । तयैव स्त्रिया सह धर्मादिनिखिलपुमर्थसिद्धिहस्थस्य नत्वन्ययेति निर्णीते कलावद्य क्वचिदुद्वाहिताखपि व्यभिचारो दृश्यत इति कथमादौ धर्मस्यैव सिद्धिः संभवेदित्येतद्विभागज्ञानार्थ तल्लक्षणतस्तद्धानमुपादानं च सूचयन्नादौ सामान्यतः स्त्रीत्रैविध्यमुद्दिशति-स्वकीयेत्यर्धेनैव । तदुक्तं दशरूपककारिकाकृता'वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा'इति । रसमञ्जर्यामपि नायिका तावनिरूप्यत इति प्रतिज्ञाय ‘साच त्रिविधा स्वीया परकीया सामान्या च' इति । तत्राद्यां लक्षयति-सर्वदेत्यर्धेनैव । क्षणिकरतिस्तु परकीयादेरपीति सर्वदेति । अतएव मात्र । आत्मपदं तु रतेर्निरतिशयत्वसूचकोपमानार्थमेव । तथाच निरन्तरनिरतिशयपतिरतिमत्त्वं खकीयात्वमिति तल्लक्षणं फलितम् । तदुक्तं साहित्यदर्प. णे-'विनयाजवादियुक्ता गृहकर्मरता पतिव्रता स्वीया' इति । तत्र स्वामिन्येवानुरक्ता स्वीयेति रसमञ्जरीकृत्तल्लक्षणं संक्षिप्योदाजहार च-'गतागतकुतूहलं नयनयोरपाङ्गावधि स्मितं कुलनतभ्रवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः कदाचिदपि चेत्तदा मनसि केवलं मज्जति' इति। अत्र कश्चिदिदं पद्यमन्यथा व्याख्याय सामान्यायां तत्प्रसंजयति । तद्यथा-कुलेति । कुले पुरुषनिकर एव तद्वशीकारार्थ नताः संकुचिताः भ्रुवो यासां तास्तथेत्यर्थः। अतएव अपाङ्गावध्यपि । अपगतं अङ्गमवयवो यस्य सः अवधिः परिसमाप्तिर्यस्मिन्कर्मणि यथा भवति तथा । विगतनासाद्यवयवपुरुषपर्यन्तमपीति यावत् । नयनयोः नेत्रयोः गतेति गमनागमनकौतुकमिति यावत् । भवतीति शेषः । एतेन वित्तैकोपाधिकरतिमत्त्वं सामान्यवनितालिङ्गं व्यज्यते । अतएव स्मितं मन्दहसितमपि अधरे नीच एव नतु परमोत्तमे । तत्रापि विश्राम्यति सुस्थिरं भवति नतु ततोऽन्यत्रापि संचरतीत्यर्थः । इदमपि प्राग्वदेव लिङ्गम् । अतएव वच इत्याद्युत्तरार्धेन वचोपि । मूल्यसूचकवित्तविषयकवाक्यमपीति यावत् । प्रियेति । विपुलधनदातृत्वेना. तिप्रीतिविषयकपुंकरणस्येत्यर्थः । अतिथिरेव तदेकावच्छेदेन क्षणावस्थाय्येवे. त्यर्थः । इदमपि पूर्ववदेव । अथैतेनोक्तवाक्यस्य दैवात्प्रत्युत्तराप्रदाने कृते सति बहुधा वित्तलुब्धतया कोपक्रमो नैव जायतेऽथाप्यसौ कदाचिदपि चेत्तदा मनसि केवलमन्तःकरण एव मज्जति । जलधिगतमैनाकवदीषदपि नैव बहिर्वक्रदृष्टयादिद्वारा स्पष्टीभवतीति यावत् । एतेनापि तदेव दृढीभवतीति भाव इति । एवंचेदं दुरुदाहरणमेवेति संदूष्यात्र मया त्वेवमुदाहियत इति प्रतिज्ञाय पठति–'पदन्यासो गेहादहिरहिफणारोपणसमो वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः। निजावासादन्यद्भवनमपरद्वीपतुलितं पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः' इति। अत्रोच्यते । यथा भानुमिश्रपद्ये त्वया तावदपाङ्गकलाधरेपि पदत्रयान्यथाव्याख्यानेनैवाखिलोपि श्लोकः सामान्यसीमन्तिन्यामतिव्यापितस्तद्वत्तावेकोप्ययं मृगकान्तपदद्वयान्यथाकरणेनैव परकीयायां व्यभिचरति । 'मृग अन्वेषणे' इति धातो. {गयति शोधयति खजारमिति तथा तादृशी दृग्दृष्टिर्यस्यास्तस्याः सुगूढव्यभिचारिण्य