________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
५२५ ऐतिचं वृद्धवाक्यानामादिहीना परम्परा । वदन्ति ह्यखिला वृद्धाः श्रीशसेव्यमृतीत्यपि ॥ ३०६॥ तिलतन्दुलवत्सङ्घः संसृष्टिर्बह्वलंकृतेः। सहुरो पाहि मां दीनं भवदावानलाकुलम् ॥ ३०७॥ क्षीरनीरसमो नानालंकाराणां स संकरः।
हरिर्जयति संसारतिमिरध्वंसकृञ्चिरम् ॥ ३०८ ॥ चिदिह नः प्रथयन्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी' इति ॥३०५॥ अथैतिह्यमपि क्रमागतमष्टमं प्रमाणमलंकारत्वेन लक्षयति-ऐतिह्यमिति । तामुदाहरति-वदन्तिहीति।अमृती मोक्षशाली यावदारब्धं जीवन्मुक्त इत्यर्थः। अपिना सद्योमुक्तोपीत्येतत् । पक्षद्वयमपि संक्षेपशारीरकादिशास्त्रसिद्धमेवेति भावः । यथावा कुवलयानन्दे–'कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम् । एति जीवन्तमानन्दो नरं वर्षशतादपि' इति ॥ ३०६ ॥ एवमुपमाद्यैतिह्यान्तानामष्टनबत्यलंकाराणां मध्येऽन्यतमानां मेलने विस्पष्टे सति चित्ररूपवत्संसृष्टयाख्यो. ऽन्य एवालंकारों भवतीति सूचयंस्तं लक्षयति-तिलेति । बह्विति । एकवचनमत्र जात्यभिप्रायकमेव । अनेकालंकाराणामित्यर्थः । तिलतन्दुलवत्संमेलने. ऽपि यथा तिलतन्दुलानां परस्परं भेदः स्पष्ट एव प्रतिभाति तथा अलंकाराणां संमेलनेऽपि यत्र भेदः परस्परं स्फुटतरं प्रत्यक्षीक्रियते इति यावत् । एतादृशो यः सङ्घः निरुक्कालंकारसमुदायः सा संसृष्टिरेतन्नान्यलंकृतिर्भवतीति योजना । तामुदाहरति-सहुरो इति । अयि सद्गुरो, वं भवेति संसारदावानलविकलमित्यर्थः। अतएव दीनमेतादृशं मां पाहि कृपादृष्टयमृतवृष्टया परिपालयेति संबन्धः । अत्र सदिति परिकराङ्कुरः । भवेत्यत्र रूपकं लुप्तोपमा वा दीनमित्यादौ परिकरः पाहीत्यादौ काव्यलिङ्गं चेत्येतन्मेलनस्य विस्पष्टत्वालक्षणसंगतिः । यथावा सरखतीकण्ठाभरणे-'पिनष्टीव तरङ्गाप्रैरुदधिः फेनचन्दनम् । तदादाय करैरिन्दुलिपन्तीव दिगङ्गनाः' । अत्रोत्प्रेक्षाद्वयं रूपकद्वयं च तिलतण्डुलवत्संकीर्यते इति संसृष्टिं प्रकृत्योक्तम् । यथावा काव्यप्रकाशे तां प्रकृत्य-'लिम्पतीव तमोङ्गानि वर्षतीवाजनं नभः । असत्पुरुषसेवेव दृष्टिनिष्कलतां गता' इति । अत्र पूर्वार्ध उत्प्रेक्षाद्वयमुत्तरार्ध उपमा च व्यकैवेति तथा । यथावा साहित्यदर्पणे-'देवः पायादपायाद्वः स्मेरेन्दीवरलोचनः। संसारध्वान्तविध्वंसहंसः कंसनिषूदनः' इति । अत्र स्मेरेत्यत्र लुप्तोपमा संसारेति रूपकद्वयं च व्यक्तमेव । यथावा कुवलयानन्दे-लिम्पतीवेत्याद्यर्थालंकारसंसृष्टयुदाहरणं विलिख्य । 'आनन्दमन्दिरपुरन्दरमुक्तमाल्यमौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु वो विजयाय मञ्जुमञ्जीरसिञ्जितमनोहरमम्बिकायाः' इत्युक्तम् ॥ ३०७ ॥ एवं अर्थतेषामलं. काराणां यथासंभवं वचिन्मेलने लौकिकालंकाराणां मेलन इव चारुत्वान्तरालम्ब