SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११० साहित्यसारम् । यंगवीनमोषाय कृष्णोऽन्तःपुरमागतः । आभीरतरुणीं सुप्तां दृष्ट्वा पुलकितोऽभवत् ॥ ७१ ॥ [ पूर्वार्धे लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता' इति । तस्मात् 'जायापत्योमिथोरत्यावृत्तिः शृङ्गार उच्यते । संयोगो विप्रलम्भश्चेत्येष तु द्विविधो मतः । तौ तयोर्भवतोर्वाच्यौ बुधैर्युक्तवियुक्तयोः । प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा मतः' इत्यभियुक्तोक्तेः प्रच्छन्नपदवाच्यं गूढत्वमेव त्वया गुप्तपदेनोररीकृत्या - त्रापि गोपालानां निरुक्तराधाकृष्णचेष्टिताज्ञानात्तथात्वमस्त्येवेति लक्षणसंगतिः कार्येति चेत्सत्यम्, तथापि प्रच्छन्नत्वं किमुभयभिन्नागोचरत्वमन्यतरागोचरत्वं वा । आद्ये उभयैकगोचरत्वस्य तदर्थत्वेनोषायाः स्वानिककान्तोपलम्भोत्तरक्षणजन्ये विप्रलम्भेऽव्याप्तेः । अन्त्ये इतरगोचरत्वस्यानिवारितत्वेन प्रकाशत्वापत्तेः । तस्मात्प्राचीनवाक्येऽपि प्रच्छन्नपदेन परकीयाविषयत्वंमेव वाच्यम् । अतएव रसमञ्जर्यं तावद्गुप्ताविदग्धालक्षिताकुलटानुशयानानां परकीयायामेवान्तर्भाव इत्युक्तम् । किंचान्यत्रापि प्रच्छन्नाख्यसंभोगविप्रलम्भयोरुदाहरणे परकीयाविषये एवोक्ते । यथा - 'भ्रमभ्रुकुटि सस्मितं नमितकंधरं प्रोल्लसत्कपोलपुलकावलि श्वसित कम्पितोरोजकम् । उदश्चितभुजायुगप्रथित केशपाशं पुरो गुरोरपि हरिः सुखं सपदि राधयाऽलोक्यते' इति, 'समानकुलशीलयोः समरुचोः परायत्तयोः परस्परविलोकनाकुलितचेतसोः प्रेयसोः । तनुत्वमधिविन्दतोर्बहुविधं विधिं निन्दतोरशक्यविनिवेदना विरहवेदना वर्धते' इति । नचेदं विषमानुरागस्यैवोदाहरणं निरुक्तरीत्या राधाया एव रतेरत्र व्यज्यमानत्वात्तथाच प्राक्प्रतिज्ञातसमानुरागकगुप्तसंभोगशृङ्गारस्यैव तद्भेदाष्टके प्रथमत्वात् कथमत्र तदुदाहरणत्वमिति वाच्यम् । निरुक्तहरिपदव्युत्पत्त्यैव तथात्वसिद्धेः । एवंच यतोऽनेन भगवता स्वकीयानन्तसौन्दर्यादिगुणगणैस्तस्याः स्वस्मिन्रतिर्व्याजागमनादिकार्यलिङ्गकानुमानेन प्रागेवोत्पादितेति सिद्धम् । अतएवेदमप्यर्थात्सिद्ध्यति यत्स्वस्य तस्यां निरतिशया रतिरिति । नोचेदाकर्षणपदद्योतितसंमोहनरूपकार्यस्य विना स्वरतिमनुपपन्नत्वापत्तेः । तस्माद्राधालम्बना कौमुद्युद्दीपना मोदसंचारिभावा संमोहानुभवा भगवद्गता रतिरप्यत्र व्यज्यत इति समानुरागकस्यै - वोक्तरसस्येदमुदाहरणमिति दिक् । अत्र परकीया क्रियाविदग्धा प्रौढाभिसारिका नायिका । हर्षितो ललितश्च नायकः । समानुरागको गुप्तसंभोगः शृङ्गारः । परिकरपरिकराङ्कुरावलंकारौ । यथावा रसतरङ्गिण्याम् – 'निद्राणे क्षणमुन्नमय्य वदनं कान्ते कुचान्तस्पृशि स्रस्तव्यस्त दुकूलदर्शितवलिप्रव्यक्तनाभिश्रियः । राधाया दरघूर्णदुत्पलदलद्रोणीमदद्रोहिभिर्दृकोणस्य तरङ्गितैर्विरचितो दीर्घायुरेव स्मरः' इति ॥ ७० ॥ अथ तमेव विषमानुरागकमुदाहरति-- हैयंगवीनेति । ' तत्तु हैयंगवीनं यत् ह्योगोदोहोद्भवं घृतम्' इत्यमरोक्तेः नवगोघृतमित्यर्थः । तस्य मोषश्चौर्य तदर्थमिति यावत् । अन्तःपुरं स्त्रीणां निद्रादिस्थानमित्यर्थः । ‘गोपे
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy