SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ इमानि च भूयश्छन्दोऽनुशासनस्य प्रयोजनानि यान्यत ऊर्ध्वमनुक्रमिष्यामः। बहुचानां श्रुतौ तावदाम्नायते-"प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो भागधेयानि व्यभजत् । स गायत्रीमेवामये वसुभ्यः प्रातःसवोऽभजत्, त्रिष्टुभमिन्द्राय रुदेभ्यो मध्यन्दिने, जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यस्तृतीयसवने । अथास्य यत् खं छन्द आसीदनुष्टुप-त्वं न्वेव देवानां पापिष्ठोऽसि, यस्य तेऽहं खं छन्दोऽस्मि यां मोदन्तमभ्युदौहीरच्छावाकीयामभीति । तदजानात् स खं सोममाहरत् स खे सोमेनं मुखममि पर्याहरदनुष्टुभम् । तस्मादनुष्टुवनिया मुख्या युज्यते” (ऐ. ब्रा. १२।२) इति । तदे-: तच्छन्दोवेदं विद्वांसमन्तरेण कोऽन्यः शक्नोत्येतदर्थ विज्ञातुम् ? अतो दिव्यवेदार्थप्रतिपत्यर्थमारम्भणीयश्छन्दोवेदः ॥ १॥ अथो पञ्चवीर्य वा एतच्छन्दो यद्विराट् यत्रिपदा तेनोणिहागायत्र्यौ यदस्या एका- . दशाक्षराणि पदानि तेन त्रिष्टुभ् । यत् त्रयस्त्रिंशदक्षरा तेनानुष्टुप् । न वा एकेनाक्षरेण च्छदांसि वियन्ति न द्वाभ्यां यद्विराट् तत्पञ्चमम् । सर्वेषां छन्दसां वीर्यमवरुन्धे सर्वेषां छन्दसां वीर्यमश्नुते सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामश्नुते। अन्नादोनपतिर्भवति अश्नुते प्रजयानाद्यं य एवं विद्वान् विराजौ कुरुते (ऐ. ब्रा. ११६) इत्येवं विराजोऽर्थवादः श्रूयते; स न पञ्चवीर्यत्वमवगन्तुं शक्नोत्यन्तरेण च्छन्दोवेदमित्यारम्भणीयश्छन्दोवेदः ॥२॥ "सर्वैश्छन्दोभिर्यजेदित्याहुः सर्वैः छन्दोभिरिष्ट्वा देवाः खर्ग लोकमजयंस्तथैवैतद्यजमानः सर्वैश्छन्दोभिरिष्ट्वा स्वर्ग लोकं जयति।...एतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमन्वन्यानि । एतानि हि यज्ञप्रतमामिव क्रियन्ते। एतैर्ह वा.अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद" (ऐ. ब्रा. २॥३) इति हि श्रूयते । तत्र किं तावत्सर्वेषां छन्दसां खंरूपं ? कानि वान्यानीति न तत्त्वतः शक्नोत्यवधारयितुमच्छान्दसिको न वा यष्टुमित्यारम्भणीयश्छन्दोवेदः ॥ ३ ॥ __"स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद । यो वै तद्वेद यथा छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति तत् सुविदितमिति (ऐ. ब्रा. १०८) श्रूयते । तदेतस्य छन्दोमयस्य देवताप्ययो यथा भवति तथा ज्ञानं हि सुज्ञानमित्यस्माकं सुज्ञानं यथा स्यादित्यारम्भणीयश्छन्दोवेदः ॥४॥ ___ “तद्यदाग्नेन्द्रया यजति विजित्या एव सा विराट् त्रयस्त्रिंशदक्षराभवति" "त्रयस्त्रिंशद्वै देवाः-अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । तत् प्रथम उक्थमुखे देवता अक्षरभाजः करोति अक्षरमक्षरमेवं तद्देवता अनुप्रपिबंति देवपात्रेणैव तद्देवतास्तृप्यन्ति इति श्रूयते” (ऐ. ब्रा. १२।११)। तदेवं देवता यद्यक्षरभाजः कल्प्यन्ते, तत्तर्हि नान्तरेणाक्षरच्छन्दोविज्ञानमेता विज्ञातुं शक्यन्ते । तदेताश्छन्दोभिर्यथा विजानीयामित्यारम्भणीयश्छन्दोवेदः ॥५॥ "नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन्, यदुपसदः सछन्दसः कर्तव्या न विछन्दसः । यद्विछन्दसः कुर्याद् प्रीवासु तद्गण्डं दध्यादीश्वरो ग्लावो जनितोः ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy