SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रहो हृखसमकालः” इत्यनुशासनात् । तदनुरोधेनैवासमस्तपदयोरभ्यधमात्राकालस्य, यता द्विमात्राकालस्य, विरतौ तु साद्विमात्राकालस्य, व्यवच्छेदकत्वस्वीकारापत्त्या संहिताया दूरापास्तत्वात् । अत्रोच्यते-नेदमवग्रहे तावदेकमानाकालव्यवधानं नियम्यते। “अवग्रहे तु यः कालस्वर्धमात्रा विधीयते” इति याश्यवल्क्येम तत्रैवार्धमात्राकालव्यवस्थापनात् । तस्मादवग्रहे कंचिदेकमात्रयापि व्यवच्छेद इयत्रैव कालायनतात्पर्य लभ्यते। युक्तश्चायमर्थः, विच्छेदकालस्य न्यूनाधिकताया विवक्षाधीनतया नियमानुपपत्तेः । अत एव ऋप्रातिशाख्येसंहिता “पदप्रकृतिः”(२।१)-इत्यारुयायते । संहितायाः पदं प्रकृतिः, पदस्य वा संहिता प्रकृतिरित्युभयथा सूत्रं व्याचक्षते । अर्थे क्वचित्कृतसमयाः संहितावर्णाः पदमिति पदे वर्णस्थित्या संहितास्वरूपं प्रतिपत्तुं युक्तम् । तत्र हि व्यञ्जनयोः खरान्तरितयोः खरानन्तरितयोर्वा विच्छेदकालो नैकधा भवति । अत एव चावग्रहे समस्तपदे यत्यादौ च नैकरूपो विच्छेदकालः क्रमागतः शक्यो नियन्तुम् । विवक्षावशाद्वर्णमैत्रीवशाच्च तारतम्यसंभवात् । यत्तु 'खरान्तरितयोर्मध्यवर्ती व्यञ्जनयोः खरः। विच्छेदकालो मात्रा वा द्वे मात्रे तिस्र एव वा ॥१॥ विच्छियेते व्यञ्जनेन व्यंजनान्तरितौ खरौ। व्यजनखरयोः कालो विच्छेदस्य न विद्यते ॥ २॥. संयुक्तयोय॑जनयोर्मात्रापादोऽन्तरं भवेत् । । मात्रापादाधविच्छेदे गुणसाङ्कर्यसंभवः ॥३॥.. समस्खपदयोर्मध्ये विच्छेदस्त्वर्धमात्रकः।। पादोनमात्राविच्छेदः पदयोरसमस्तयोः ॥४॥ एकक्रियान्वये वाक्यखण्डानां मात्रयान्तरम् । सैकद्वित्रिचतुःपादा मात्रा सापेक्षवाक्ययोः ॥ ५॥ त्रिमात्रा वा चतुर्मात्रा सूतपूर्ती विधीयते। अधिकारे प्रकरणे ततोऽप्यधिकमिष्यते ॥ ६ ॥ लोकेऽर्धमात्रा तु यतौ विरतौ मात्रयान्तरम् ।' विच्छेदे त्वत्र माने द्वे अवसाये ततोऽधिकम् ॥॥ ., इत्येवं केचन व्यवच्छेदनियमाः प्रदर्श्यन्ते; तदपि औचित्यमात्रसापेक्षं व्यवस्थानमात्रम् । वर्णमैत्रीवशाद्विवक्षावशाच्च क्वचित्तदतिरेकदर्शनात् । यथा जायन्ते नव सौ तथापि च नव भ्याभिस्भ्यसां सङ्गमे ... षट् संख्यानि नवैव सुप्यथ जसि त्रीण्येव तद्वच्छसि। चत्वार्यन्यवचःसु कस्य विबुधाः शब्दस्य रूपाणि त . बानन्तु प्रतिभास्ति चेन्निगदितु पाण्मासिकोऽत्रावधिः ॥१॥ इत्यत्राद्यपादयनी अर्धमात्रया द्वितीयपादयतो पादोनमात्रया तृतीयपादयतावेकमात्रया वा व्यवच्छेदोऽधभासते। तृतीयपादान्ते त्वर्द्धमात्रयैव, नैकमात्रयेति नाविदितं . १ गवाक शब्दस्वेत्यर्थः ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy