________________
५७
सर्वेषामेव श्लोकानां द्विदलत्वं प्रतिपत्तुं युज्यत इत्यन्यदेतत् ॥ एवं स्थिते यान्येतानि श्लोकखण्डान्याख्यातानि तेषामेकैकप्रस्तारखरूपत्वं पार्थक्येन प्रतिपत्तव्यम् । तथा च सप्ताक्षरकप्रस्तारसंबन्धिनां सप्तदशचतुःषष्टितमोनविंशानां समासेन खग्धराच्छन्दः । द्वादशाक्षरप्रस्तारसंबन्धिनोऽष्टादशशतोत्तरैकाशीतितमखरूपस्य तथा सप्ताक्षरप्रस्तारसंबन्धिनः सप्तत्रिंशखरूपस्य च समासेन शार्दूलविक्रीडितसिद्धिः । इत्येवमेकैकप्रस्तारस्वरूपाणां पदत्वात्तत्समासेन तानि तानि च्छन्दांसि संपयन्त इति द्रष्टव्यम् ।
अथ ब्रूयात् - मसयोर्जसयोरपि षडक्षरप्रस्तारखरूपविशेषतया पदत्वसंभवात्तयोरपि समासेन शार्दूलविक्रीडितभागसिद्धिः कस्माञ्चाख्यायत ? इति । तत्रेदं क्कव्यम्यथा हि सङ्घटकशब्दे - संघ - टकशब्दयोर्यथाकथंचित्पदत्वसंभवेऽपि कुतश्चित् कारणाच तयोः समासेन सङ्घटकशब्दसिद्धिं मन्यन्ते वैयाकरणाः - एवमिहापि स नेष्यताम् । यथा वा शकारद्विवचनेन – “उदकं पश्श्यति ” इति यत्र प्रयुज्यते, तत्रोदकमिति पश्यतीत्येवमेकः पदच्छेदः । जलं निरीक्षते इत्यर्थात् १, अथ - उदकम्प इति इयतीत्येवमन्यः पदच्छेदः । जलकम्पनं तनूकरोतीत्यर्थात् २, एवमुदिति अकमिति पश्यतीति चान्यः पदच्छेदः । उपरिष्टाद्दुःखमालोचयतीत्यर्थात् ३, तथा - उ- इति, दकमिति, पशीति, अतीति चापरः पदच्छेदः । पश्शब्दप्रतिपाद्येहदाद्यर्थेऽतिशयेन जलं वितर्क्सट . इत्यर्थात् ४, इत्थमनेकधा संभवेऽपि खरविशेषात् पदविभागमध्यवस्यन्ति प्रेक्षावन्तः, तथेहापि गतिविशेषात्पदविभागाध्यवसायः क्रियते । यत्रैव काचिद्गतिः समाप्नोति तत्रावश्यमवष्टम्भो भवति । अनवष्टम्भे गतिरनुवर्तत इति तन्मध्ये प्रस्तारविशेषानुगतस्वरूपसंभवमात्रेण नानेकपदत्वगतिप्रतिपत्तिर्युज्यते । यथाहि - उद इति उदकमिति कमिति - एतेषां समानार्थकपदत्वसम्भवेऽपि नोदकशब्दे उदशब्दस्य दकशब्दस्य कशब्दस्य वा पदत्वं प्रतिपद्यन्त इत्यवधारणीयम् ।
स चायं समासः पञ्चधा – नित्यसमासः १, विकल्पसमासः २, संकीर्णसमासः ३, प्रकीर्णसमासः ४, उपपदसमासश्च ५ । तत्र समानप्रस्तारानुगतनियतखरूपाणामाम्रेडिते नित्यः । यथा - वसन्ततिलकाचरणयोर्नित्यसमखरूपयोर्द्विरुक्तिः १ । यत्र तु समानप्रस्तारानुगतानियतखरूपाणां समुच्चयः, तत्र विकल्पः । यथा - पथ्यावक्रचरणयोरपि भिन्नसंस्थानयोरभिनिवेशः २ । यदि तु विभिन्नप्रस्तारानुगतनियतखरूपाणां समुच्चयस्तदा राङ्कीर्णः । यथा - पुष्पिताग्राचरणयोर्द्वादशाक्षरत्रयोदशाक्षरप्रस्तारानुगतखरूपविशेषयोः समुच्चयः ३ । यदि पुनर्विभिन्नप्रस्तारानुगतानियत खरूपाणां समुच्चयस्तदा प्रकीर्णः । यथा दोधाचरणोत्रयोदशैकादशमात्राप्रस्तारानुगतानियतखरूपाणां मध्ये यथेच्छमेकैकस्य संनिवेशेन संसिद्धिः ४ । अथ सोऽयमुपपदसमासो यंत्र. पदमेदेऽप्यखण्डपदवत्प्रतिपत्तिः । यथा उदकशब्दे उदिति निपातस्यावतिवृत्तेन समुच्चयेऽप्यखण्डवदुपचारः । यथा वा - समुद्रशब्दे न निर्णीयते सशब्दमुद्राशब्दसमुच्चयो वा (१) संमुन्निपातयोर्द्रवतिवृत्तेन समुच्चयो वा (२) समिति निपातस्य जलार्थकोदशब्दस्य यतिवृत्तेन
छ० ६