________________
४१
“ता उत्तरेणाहवनीयं प्रणयति । योषा वा आपो वृषाग्निः । मिथुनमेवैतत्प्रजननं क्रियते । एवमिव हि मिथुनं लुप्तम्। उत्तरतो हि स्त्री पुमांसमतिशेते ।",
इति शतपथोक्तयोषावृषन्यायेन सौम्याया अपां दिशो योषात्वं गाम्यामा अभिदिशथ वृषत्वं प्रतिपद्य तत्रांशानुरोधिदशरेखाभिप्रायेण विराट्त्वमाख्यातं दृश्यते श्रुतिस्मृत्यादिषु । तथा च विषुवदहः - संस्थानाभिप्रायेण तावत्---
“यथा वै पुरुषः एवं विषुवान् । तस्य यथा दक्षिणोऽर्घः एवं पूर्वोऽर्धो विषुवतः । यथोत्तरोऽर्धः, एवमुत्तरोऽर्धो विषुवतः । तस्मादुत्तर इत्याचक्षते । प्रवाहुक् सतः शिर एव विषुवान् । विदलसंहित इव वै पुरुषः । तद्धापि स्यूमेव मध्ये शीष्ण विज्ञायते ।” इत्युक्तमेतरेयके । तैत्तिरीयकेऽपि—
“एकविंश एष भवति । एतेन वै देवा एकविंशेनादित्यमित उत्तमं सुवर्ग लोकमारोयन् । स वा एष इत एकविंशः । तस्य दशावरस्तादहानि दश परखात् । स वा एष विराज्युभयतः प्रतिष्ठितः । विराजिं हि वा एष उभयतः प्रतिष्ठितः । तस्मादन्तरेमौ लोकौ यन् सर्वेषु सुवर्गेषु लोकेष्वभितपच्चेति”
इत्युक्त्वा,
"देवा वा आदित्यस्य सुवर्गस्य लोकस्य पराचोऽतिपातादविभयुः । तं छन्दोभिरहन् धृत्यै । देवा वा आदित्यस्य सुवर्गस्य लोकस्यावाचोऽवपातादविभयुः । तं पञ्चभी रश्मिभिरुदवयन् ॥” इत्याद्याम्नायते ॥
'महस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं सर्वतः स्पृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥' ' ततो विराडजायत विराजोऽधिपूरुषः ।
स जातोऽत्यरिच्यत पश्चाद्भूमिमयो पुरः ॥
इत्येवमादयो मन्त्रवर्णा अप्यमुमर्थं द्रढयन्ति । स्मर्यते चायमर्थों मन्वादिभिरपि -
'द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ।
अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥'
इत्यादिना ।
तदित्थं तावदंशानां दर्शकस्य दशकस्यैकैकमक्षरत्वमभिप्रेत्य बृहतीत्वमाख्यातम् । अन्यत्र पुनः 'इयं वै मा, अन्तरिक्षं प्रमा, असौ प्रतिमा, द्वादश द्वादशाभिता उपदधाति । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती' इत्येवमाचक्षाणेन पौर्णमास्यष्टकामावास्यानां देवानामेवाक्षरत्वमभिप्रेत्य बृहतीत्वं संसाध्यते । एवं द्वादशाहस्तुती—
“ तदाहुः — यदन्यानि च्छन्दांसि वर्षीयांसि भूयोऽक्षरतराणि अथ कस्मादेतां बृहतीत्याचक्षते इति । एतया हि देवा इमाँल्लोकानाश्नवत । ते वै दशभिरेवाक्षरैरिमं लोक