________________
.
. ..
१ २४ १५०
गायत्री २ २८ १२०५२' ३०" प्रतिभागे सार्धसप्तविंशत्युत्तरशतकलापचये उष्णिक
३२ ११० १५ प्रतिभागे सार्धसप्तनवतिकलापचये अनुष्टुप ४ ३६ १०० प्रतिभागे पञ्चसप्ततिकलापचये
बृहती ५ ४० ९० प्रतिभागे षष्टिकलापचये
पतिः ६ ४४८०११' १५” प्रतिभागे पादोनोनपञ्चाशत्कलापचये त्रिष्टुप् ७ ४८ ७°३० प्रतिभागे सपादकचत्वारिंशत्कलापचये जगती अम्मिश्च निर्दिष्टे संवत्सरचक्रे यद्यपि निर्देशलाघवाय एकस्मादेव स्थानादारब्धानि तानि सर्वाणि छन्दांसि, अथापि तेषामारम्भणीयस्थानानि देवताविशेषः प्रतिपत्तव्यानि । अग्नितारातो गायत्र्याः (१), सवितृत उष्णिहः (२), सोमादनुष्टुभः (३), बृहस्पतेश्र वृहत्याः (४), वरुणात् पङ्केः (५), इन्द्रादेव त्रिष्टुभः (६), अथ विश्वेभ्यो देवेभ्यो जगया (७) उपक्रमणात् । एतदभिप्रायेणैवैतेषां देवानाम्
'अग्नेर्गायत्र्यभवत् सयुग्वोष्णिहया सविता संबभूव ।
अनुष्टुभा सोम उक्थैर्महखान् बृहस्पतेहती वाचमावत् ॥ विराण मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः ।
विश्वान् देवान् जगत्याविवेश तेन चाक्लप ऋषयो मनुष्याः ॥' (ऋ.सं. ८) इत्यस्मिन् मत्रे तत्तच्छन्दोभिः सयुक्त्वं तत्तच्छन्दोऽधिष्ठातृत्वं च महर्षय आमनन्ति । तथैव जगदुपभोगाच्च।
एतेषामेव तत्तच्छन्दःसयुजां देवानामंशुभिराप्यायितस्य सूर्यांशोस्तत्तदधिष्ठाने शुक्लसारजादिरूपवत्त्वमुपदिश्यते छन्दःस्थितिनिदर्शनायामवगमसौकर्याय वा । तदिदं यथायथमुपेक्ष्यम् ॥
तथा च प्रकृते सूर्यप्रकाशात्मकस्य प्रजापतेहतीपदव्योपक्रममाणस्य बृहतीमुभयतोभागा रथोपकरणवत् संचारसाधनान्येव भवन्तीति यथेच्छं स्थवद्यानत्वमश्ववद्वा वाहनत्वमत्रैव सर्वदावस्थानात्सदनत्वं चोपचर्यते। सूर्यप्रकाशस्य प्रजापतित्वं चैतरेयशतपथयोरानायते_ 'तदु तदिमांलोकान् समारुह्य अथैषा गतिरेषा प्रतिष्ठा य एष तपति। तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स खर्गो वा लोकः तदेवमिमांल्लोकान् समारूह्य अर्थतां गतिमेतां प्रतिष्टां गच्छति। तदेतां गतिमेतां प्रतिष्ठां गत्वा एतस्यैवावृतमन्वावर्तते।' _ 'असावादित्य एकविंश उत्तमा प्रतिष्ठा, तद्देवं क्षत्रम् , सा श्रीः, तदाधिपत्यम् . तद् अभ्रस्य विष्टपम्, तत्प्रजापतेरायतनम् , तत्खाराज्यमनोति ॥' इति च ॥
तत्रैतस्य विशिष्टस्य रथत्वाभ्युपपत्तौ तदपेक्षिते रथचक्रे यथेच्छं छन्दोमर्यादावृत्ताभिप्रायेण कदाचित्सप्तचक्रत्वम्, कदाचिच्च रथपार्श्वत्वसाधागायत्रीजगत्यभिप्रायेण