________________
२९
1
तस्मात्ते आद्याः—–अन्नधानाद्व्यसृज्यन्त । तस्माद्भूयांसोऽन्येभ्यो भूमिष्ठा हि देवता अन्नसृज्यन्त ॥ पत्त एकविंशं निरनिमीत । तमनुष्टुप् छन्दोऽन्वसृज्यत । वैराजं साम, हें मनुष्याणाम्, अश्वः पशूनाम्, तस्मात्तौ भूतसंक्रामिणावश्वश्व शूद्रश्च । तस्माच्छूद्रो गोनवक्लृप्तो न हि देवता अन्वसृज्यत । तस्मात्पादावुपजीवतः, पत्तो ह्यसृज्येताम् । प्राणा वै त्रिवृत्, अर्धमासाः पञ्चदश, प्रजापतिः सप्तदशः, श्रय इमे लोकाः; असावादित्य एकविंशः । तस्मिन् वै एते श्रिताः, एतस्मिन् प्रतिष्ठिताः, यं एवं वेदैतस्मिन्नेव श्रयते एतस्मिन् प्रतितिष्ठति ॥' इति ( शतपथ० ७ । १ । १ ) ·
इति मन्त्रब्राह्मणाभ्यां तथाम्नानात् ।
यत्तु — एवंविधादेव मन्त्रब्राह्मणाद्यानानात् सृष्ट्यादौ मनुष्याकारपरमेश्वरस्य मुखाद्यज्ञेभ्यश्वत्वारः सृष्ट्यादिभूता ब्राह्मणक्षत्रियवैश्यशूद्रा उत्पन्ना इति लभ्यते, ततश्चोत्प्रतिलभ्यमेव ब्राह्मणत्वादिकं न संस्कारलभ्यमित्याक्षिपन्ति, तदज्ञानात् ।
‘अर्धं वै प्रजापतेरात्मनो धैर्यमासीदर्घ माल्व्यम् । यद्वैर्य - सोमो वै सः । ततो ब्राह्मणमसृजत । यन्माल्व्यं —सुरा वै सा । ततो राजन्यमसृजत ॥ इत्यादिश्रुतिष्विवेहापि मुखाद्ब्राह्मणमसृजत, उरसः क्षत्रियमित्यादीनामपेक्षितार्थविशेषपरत्वात् । तदित्वं सिद्धमझ्यादिभक्तिसिद्धद्रविणसंयोगाद्राह्मणादिसंस्कारविशेषाणामपि गायत्र्यादित्वमिति दिक् ॥
निरूपयिष्यते चायमर्थो वैशवेन धर्मसमीक्षायामित्यतोऽत्र विरम्यते ॥
अथ द्रविणम्
'तत्र समिधमातिष्ठ । गायत्री त्वा छन्दसामवतु, त्रिवृत् खोमः, रमन्तरं साम, अग्निर्देवता, ब्रह्म द्रविणम् ॥ उप्रामातिष्ठ । त्रिष्टुप् त्वा छन्दसामवतु, पञ्चदशः स्तोमः, बृहत्साम, इन्द्रो देवता, क्षत्रं द्रविणम् ॥ विराजमातिष्ठ । जगती त्वा छन्दसामवतु । संप्रदशः स्तोमः, वैरूपं साम, मरुतो देवताः, विड् द्रविणम् ॥ उदीचीमातिष्ठ । अनुष्टुप् वा छन्दसामवतु, एकविंशस्तोमः, वैराजं साम, मित्रावरुणौ देवता, बलं द्रविणम् ॥ ऊर्ध्वामा तिष्ठ, पङ्क्तिस्त्वा छन्दसामवतु, त्रिणवत्रयस्त्रिंशौ स्तोमौ । शाकररैवतें सामनी । बृहस्पतिदेवता । वर्चो द्रविणम् ॥' इति तैत्तिरीयश्रवणात्
1
'प्राचीमारोह | गायत्री त्वावतु, रथन्तरं साम, त्रिवृत् खोमो, वसन्त ऋतुः, ब्रह्म द्रविणम् ॥ दक्षिणामारोह । त्रिष्टुप् त्वावतु, बृहत्साम, पञ्चदशः खोमो, ग्रीष्म ऋतुः, क्षत्रं द्रविणम् ॥ उदीचीमारोह । जगती त्वावतु, वैरूपं साम, सप्तदशः खोमो, वर्षा ऋतुः, विड् द्रविणम् ॥ प्रतचीमारोह । अनुष्टुप् त्वावतु, वैराजं साम, एकविंशः खोमः, चरतुः फलं द्रविणम् ॥ ऊर्ध्वामारोह । पङ्किस्त्वावतु, शाकररैवते सामनी, त्रिणवत्रयसिंसो खोमो । हेमन्तशिशिरात्रृत् । वर्चो द्रविणम् ॥'
1
इति माध्यन्दिनीयश्रवणाश्चाभिकं द्रविणं ब्रह्म, इन्द्रभक्तं द्रविणं क्षत्रम्,