________________
१९६
काव्यमाला |
पप्रत्ययोऽप्यश्वपरिच्छित्तिरित्येके । सोऽत्यल्पत्वात् पुरुषेच्छाविधायिनानि
याच नोक्तः । एवं प्रत्ययसमासः समाप्तः ॥
पिङ्गलाचार्यरचिते छन्दःशास्त्रे हलायुधः । मृतसंजीवनी नाम वृत्तिं निर्मितवानिमाम् ॥
इति श्रीभट्टहलायुधकृतायां छन्दोवृत्तौ मृतसंजीविनीनान्यामष्टमोऽध्यायः ॥
यत्कलान्वयिनाङ्के नाथैकगुर्वादिबोधनम् ।
गुरुद्विगुणितोनाङ्कास्तेनाङ्केन कला मताः ॥ आद्यैकाङ्कैः कलाः सर्वा ज्ञेया अथ तदूर्ध्वगैः । अनकलायोगि गुर्वादिज्ञानमीरितम् ॥' इति
१. एतत् 'एकोनेऽध्वा' (८३३ ) इति सूत्रादर्शनमूलकमेवेत्युक्तमेव पुरस्तादिति सञ्जीवितामपि विलोक्य हलायुधेन छन्दश्चितिं भुजगराजकृतां क्षताङ्गीम् । नानानिबन्धगहनानि चिरं विगाह्य
काचिद् 'विशल्यकरणी' मयकाहृतेयम् ॥ १ ॥ मूर्ति यथा फणिपतेरिह लक्ष्मणाख्यां
'
प्रागक्षतामतनुत श्वसनस्य सूनुः । दिव्यां विशल्यकरणीमुपहृत्य तद्वत् यत्नादिमामकरवं कृतिमुज्ज्वलाङ्गीम् ॥ २ ॥ केदारेऽङ्कुरिता पूर्व सिक्ता सागरवारिणा । वर्धिता सर्वतः सेयं विशल्यकरणी मया ॥ ३ ॥ भट्टधूपकरानन्तयज्ञेश्वरपरिष्कृता । श्रीवेदपुरुषस्यैषा पादयोरस्तु पादुका ॥ ४ ॥
इति श्रीमद्धूपकरोपाह्न-विद्यालङ्कार - भट्टानन्तयज्ञेश्वरपरिष्कृता विशल्यकरण्याख्या छन्दःशास्त्रटिप्पणी ।
समाप्तञ्चायं ग्रन्थः