SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २२ त्रिवृत्, अन्तरूपम्, उत्तमपदनिरुक्ता देवता, असौ लोकाऽभ्युदितः, सप्तपदम्, नाराशंसः, नाभानेदिष्टम्, रैवतम् अतिच्छन्दाः कृतम् । एतानि ष्टस्याही पाणि ॥ ७ एति च प्रेति च युक्तवत् रथवत्, आशुमत् पिबवत् प्रथमपदनिरुक्ता देवता, अयं लोकोऽभ्युदितः, जातवत् अनिरुक्तं करिष्यत् । एतानि सप्तमस्याहो स्पाणि ॥ ८ नेति न प्रेति, यत् स्थितम् ऊर्ध्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, वृधन्वत्, मध्यमपदनिरुता देवता, अन्तरिक्षमभ्युदितम्, यमि, महद्वत्, द्विहूतवत्, पुनर्वन् । एतान्यष्टमस्याहो रूपाणि ॥ ९ समानोदर्कम्, अश्ववत्, अन्तर्वन पुनरावृत्तम्, पुनर्निवृत्तम्, रथवत् पर्यस्त - दानरुक्ता देवता, असी लोकोऽभ्युदितः शुचिवन्, कृतम् । एतानि नवमस्याही रूपाणि !: वत्, त्रिवृत्, अन्तरूपम्, मत्यवत्, क्षेतिवत्, " गतवन · इदं नवरात्रम् । १० पृष्टयं षडहमुपर्यान्त । मुखमिव पृष्टयः षडहः । यथान्तरं मुखस्य जिह्वा, तालु दन्ताः, एवं छन्दोमाः । अथ येनैव वाचं व्याकरोति येन खादु चाखादु च विजानाति तद्दशममहः । नासिके इव पृष्टः पडहः – यथान्तरं नासिकयोरेवं छन्दोमा । अथ येनैव गन्धान विजानाति तद्दशममहः । अक्षीव पृष्टयः षडहः । यथान्तरमक्ष्णः कृष्णमेवं छन्दोमा । अथ यैव कनीनिका येन पश्यति तद्दशममहः । कर्ण इव सः - यथान्तरं कर्णस्य एवं छन्दोमा । अथ येनैव शृणोति तद्दशममहः । श्रीर्दशममहः ॥ इतीत्थं दशाहप्रतिपत्तिः 'श्रूयते । एतत्पदार्थनिरूपणं च वेदसमीक्षायां साधु कृतमिति ततः स्पन्र्मवर्गस्यते । इह तु सर्वेषामेवार्थानां त्रैविध्येनाभ्युपगमादभ्यहोरूपतया सिद्धमेवागत्य प्रतिगच्छदर्थानां समानभक्त्या गायत्रीत्वमित्यवगम्यते ॥ अथ संस्कारो द्रष्टव्यः । कस्यचित् कस्मिंश्चित् कर्मणि योग्यतासंपादनं हि संस्कारः । तत्रेधा — दोषापनोदनेन, अतिशयाधानेन, हीनाङ्गपूरणेन च । एभिः संस्कारैस्तत्तदर्थस्यादुष्टत्वं विशिष्टत्वं स्वरूपसत्त्वं च संसिद्धं भवति । अस्ति स संस्कारो यदभावे स्वरूपसन्न यसो ब्राह्मणोऽधमतामेति न तु ब्राह्मण्यादपैति । तस्याप्ययोग्यत्वं कर्मविशेषे । प्रतिबन्धकसंनिधानेन कारणतानिरासादिति तदर्थः स संस्कारः शोधकः ॥ १ ॥ अस्ति चस संस्कारो यदभावे स्वरूपसम्न्नप्यसौ ब्राह्मणो नोत्तमतामेति न तु ब्राह्मण्यादपैति । तस्याप्ययोग्यत्वं कर्मविशेषे । सहकारिसंनिधानाभावेन कारणतानिरासादिति तदर्थः स संस्कारो विशेषकः ॥ २ ॥ एवमस्ति स संस्कारो यदभावे ब्राह्मण्यं नोपतिष्ठते, ब्राह्मण्यादपेतश्च कर्मविशेषायोग्यो भवति । कारणासंनिधानादिति तदर्थः म संस्कारो भावकः ॥ ३ ॥ एषु च संस्कारशब्दस्य करणव्युत्पत्त्या संस्कारजनकत्रियापरत्वं द्रष्टव्यम् ॥
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy