________________
३ अध्यायः]
छन्दःशास्त्रम्।
यदा मध्यमस्त्रैष्टुभः पादो भवति, उभयतश्च द्वौ द्वौ गायत्री, तदा 'मध्येज्योतिः' नाम त्रिष्टुब् भवति । मध्येज्योतिरित्यलुक्समासः । यथा'बृहद्भिरने अर्चिभिः (१) शुक्रेण देव शोचिषा (२)। भरद्वाजे समिधानो यविष्ठय (३) रेवनः शुक्र दीदिहि (४) युमत्पविक दीदिहि(५)॥'
"
(ऋग्वेदे-अ.४ अ० ८ ० २ मं०२) _ 'तथा जगती' इत्यनुवर्तनीयम् । तेन मध्यमेन जोगतेन एकेन जागतेन मध्यमेन तृतीयेनोभयतश्च द्वौ द्वौ गायत्रौ, तदा 'मध्येज्योतिः' नाम जगती भवति । यथा-.. 'यन्मे नोक्तं तद्भवता () शकैयं यदनुवै (२)। .. निशामतं निशामहे मर्यि व्रतं (३) सह व्रतेषु भूयासं (४) ब्रह्मणा सामेमहि (५)।'
(ऋग्वेदे-अ० ८ अ० ८ ० ९ परि० मं० ४) उपरिष्टाज्ज्योतिरन्त्येन । ३ । ५४ ॥
यैदा चत्वारो गायत्राः पादा भवन्ति, अन्ते च त्रैष्टुभः, तदा 'उपरिष्टाज्ज्योतिः' नाम त्रिष्टुब् भवति।
१. यदा मध्यमो गायत्रो द्वितीयः पादो भवति उत्तरतश्च द्वौ त्रैष्टुभौ [9], यदा वा पूर्वी अन्तिमश्चैकत्रैष्टुभः [२], तदा 'मध्येज्योतिर्नाम त्रिष्टुब्' भवति । यथा
[२] 'स नो युवेन्द्रो जोहूत्रः सखा (१) शिवो नरामस्तु पाता (२)। ___यः शंसन्तं यः शशमानमूती (३) पचन्तं च स्तुवन्तं च पुणेषत् (४)॥'
(ऋ० सं० २।६।२५।३) {२] 'आवो रुवण्युमौशिजो हुवध्य (6) घोघेव शंसमर्जुनस्य नशे (२)। प्रवः पूष्णे दावन आँ (३) अच्छा वोचेय वसुताति मग्नेः (४)॥'
. (ऋ० सं० २।१।१५) २. 'एकेन गायत्रेण मध्यमेन द्वितीयेनोत्तरतश्च जागताभ्यां [१]; प्रथमद्वितीयाभ्यां . चतुर्थेन च जागतेन [२], 'मध्येज्योतिर्जगती' भवति । यथा[२] 'या यज्ञं मनवे सं मिमिक्षथु (७) रेवेत्काण्वस्य बोधतम् (२)। बृहस्पति विश्वान्देवाँ अहं हुव (३) इन्द्राविष्णू अश्विना वा शुहेषसा (४)।'
(ऋ० सं० ५।८।३४।२) [२] 'तश्विना भिषा रुद्रवर्तनी (१)। सरस्वती वयति पेशो अन्तरः (२)। ____ अस्थि मजान मासरैः (३)। कारोतरेण दधतो गवा त्वचि (४)॥'
(ते. ब्रां० २।६.४।३) । ३. 'यदा त्रयस्त्रैष्टुभाः पादा भवन्ति, अन्ते च गायत्रस्तदा 'उपरिष्टाज्ज्योतिस्त्रिष्टुब्' नाम भवति । यथा
'स दृळेचिनि तृणत्ति वाज़ (१) मर्वता स धत्ते अक्षिति श्रवः (२)। त्वे देवत्रा सदा पुरूवसो (३) विश्वा वामानि धीमहि (४) ॥'
(ऋ० सं० ६७४१३१५)