________________
नारायणभट्टीसहित वृत्तरत्नाकरे
Teresarभ्यां चैवं भेदः । तत्र जगणनगरणाभ्यां सप्तमस्य लघुता, श्रत्र तु भ-ताभ्यामपि तस्य तथात्वमिति । उदाहरणं च सप्तमस्य लघुत्वमातात्पर्येण जगणे भराभावेनोक्तमिति चाहुः ।। २५ ।। तवस्याऽखिलेष्वपि ॥ २६ ॥
૪૬
सैतवस्याssचार्यस्य मतेऽखिलेष्वपि पादेषु सप्तमो लः स्यादिति । स्मृत इत्यध्याहारेण सप्तमोल इति पादानुषङ्गेण व्याख्येयम् । संज्ञा तु विपुलेति निरुपपदैव । अत्र प्रतिपादं षण्णवतिर्भेदाः । तेषां परस्परहतौ aur agar ratनपञ्चाशल्लक्षाश्चतुस्त्रिंशत्सहस्राणि षट्शती षट्पञ्चाशश्च । श्रङ्कतोऽपि ८४६३४६५६ ।। २६ ||
भेनाधितो भाद्विपुला ॥ २७ ॥
श्रब्धितश्चतुरक्षरात्परेण भेन भगणेन भाद् भ इत्यक्षरात्परा विपुला । भविपुलेत्यर्थः । केचिदत्र 'अखिलेष्वपि' इत्यनुवर्तयन्ति । वृत्तिकृतस्तु "भ्रौ न्तौ च" ( पिं० सू० ५ - १६ ) इति सूत्रे " सर्वतः सैतवस्य” (पिं० सू० ५-१८) इति निवृत्तम् । "चपलायुजोन ” (पिं० सू० ५-१६) इत्यस्मादयुम्ग्रहणमनुवर्तते" इति वदन्तो विषमपादविषया एव भविपुलाद्या इत्याहुः ।। २७ ।।
इत्थमन्या रचतुर्थात् ॥ २८ ॥
चतुर्थाक्षरात्परतश्चेद्रः रगणस्तदेत्थमन्या यथा भाद्विपुला तथा रादिति रविपुलेत्यर्थः ।। २८ ।।
नोऽम्बुधेन विपुला || २६ ॥
श्रम्बुधेश्वतुर्थान्नो नगणश्चेत्तदा नयूर्वाऽन्या विपुला । नविपुलेत्यर्थः ॥ २६ ॥
तोऽब्धेस्तत्पूर्वान्या भवेत् ॥ ३० ॥
श्रब्धेश्चतुर्थात्परस्तगणश्चेत्तदा तत्पूर्विका तकारपूर्विकाऽन्या विपुला तविपुलेत्यर्थः । एवं मयाभ्यां तत्पूर्वे विपुले भवतः । श्रत्रैतासु चतसृषु पादचतुष्केऽपि तत्तद्वणयोगस्य ये सत्त्वमाहुस्तेषां मतेन यत्रैकस्मिन्द्वयोर्वा , तत्तद्नणयोगस्तत्रासां परस्परसंसर्गेणान्ये भेदा ज्ञेयाः । वृत्तिकृन्मते तु विषमपादयोरेतद्गुणयोगः, अन्ययोस्तु सप्तमस्य लघुत्वमात्रम् । यत्र तु चतुर्ष्वपि पादेषु भादियोगस्तस्यानुष्टुभ्यमेव । न तु वक्त्रत्वमिति विवेकः । तत्राप्ययुक्पादस्य जातिपरत्वे द्वयोरप्ययुजोर्भगणादियोगः, व्यक्तिपरत्वे त्वन्यतराङ्गीकारेणापि लक्षणार्थसिद्धेराधे तृतीये वा भगणादियोगः । जातिपक्षे भ-विपुलोदाहरणम् -