SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४४ नारायणभट्टीसहितवृत्तरत्नाकरेवाक्षरपरतैव । श्राद्यात्परतो नगणसगणनिषेधेन द्वितीयतृतीयवर्णान्यतरस्य गुरुताऽवश्यं भवतीति सूचितम् । अनुष्टुभि ख्यातमित्यनेनाष्टाक्षरपादता सूचिता । अतश्चाऽनुक्तोऽप्यष्टमो वर्णो शेयः । समयोश्च पादयोः प्रथमादक्षरादूचं रगणोऽपि न कार्य इति सम्प्रदायः। अत्राद्ये पादे प्रथमस्थाने गुरुलघुरूपौ द्वौ विकल्पो, द्वितीये नसनिषेधाच्छेषाः षड्गणाः, तृतीयस्थान एको य एव, चतुर्थस्थाने. ग्लौ । अन्योन्यघाते चतुावशतिः । एवं द्वितीयादिपादत्रयेऽपि प्रत्येकं चतुर्विशतिः। तेषां परस्परहतौ जातं त्रयो लक्षाः एकत्रिंशत्सहस्राणि सप्त शतानि षट्सप्ततिश्चेति सङ्ख्या। अङ्कतोऽपि ३३१७७६ । एषैव सङ्ख्या प्रत्येकं पथ्यावक्त्रादिषु त्रिषु भेदेषह्या । सम्प्रदायमाश्रित्य द्वितीयचतुर्थपादयोद्वितीयस्थाने रगणस्यापि निषेधात्समयोः प्रत्येकं विंशतिभेदाः, विषमयोश्चतुर्विशतिरेव । तेषामन्योन्यघाते जाता सङ्ख्या लक्षद्वयं त्रिंशत्सहस्राणि चत्वारि शतानि । अङ्कतोऽपि २३०४०० ॥ २१ ।। अब्धेर्य इत्यस्यापवादेनास्यैव भेदानाह युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥ २२ ॥(१) युजोर्युग्मयोद्वितीयचतुर्थचरणयोः सरिद्भर्तुश्चतुर्थाक्षरात्परेण जगणेन पथ्यावक्त्रं प्रकीर्तितम् । पिङ्गलेन "पथ्या युजो ज्' (पिं०स०-१४) इति सूत्रे इत्यर्थः । विषमयोस्तु यगणः सामान्यप्राप्तः ॥ २२ ॥ ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ २३ ॥(२) (१.) उदाहरणान्तरं यथा छन्दोवृत्तौ गु. त. य. ल. गु. म. ज. ल. नित्यं नीति-निषण्ण-स्य रा- शो राष्ट्र न सीद ति ॥ ___s, 551, 155, ।, 5, sss, । । । ल. य. य. गु. गु. म. ज. गु. ---- - - --- - - - ---- न हि पथ्या-शिनःका-ये जा-यन्ते व्या-धिवेद--नाः ॥ । । 55, Iss, 5, 5, 55 5, 15, 5. (२) उदाहरणान्तरं तत्रैव यथा-- गु. य. ज. गु. गु. म. य. गु. L - - - - - - L. भ-तुराज्ञा-ऽनुवर्ति---नी या स्त्री स्यात्सा-स्थिरा ल-क्ष्मीः ॥ s, Iss, । 51, 5, 5 sss, Iss, s
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy