SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। नाम । ममैव यथा यस्य विलासवतीनां केलिकलाकौशले रतिविरतिः । मैथुनमात्ररसशः शृङ्गविहीनः पुमान्स पशुः॥ (१०)। सैवोत्तरार्धेऽधिकैकगुरुयुता चन्द्रिका नाम । व्यत्यस्ताधं पूर्वमेवोदाहरणम् (११) । एतासामपि पूर्वोक्तपथ्यादिषोडशार्याणां सम्भिन्नतया प्रत्येकं षोडशधात्वे सति सङ्ख्या १७६ । एतासामुदाहरणानि स्वयमूह्यानि । विस्तरभयात्तु नोच्यन्ते । पूर्वोक्तानां चतुर्विधगीतीनां च तथैव षोडशधात्वे सङ्ख्या ६४ । ऐक्ये गीतिसङ्ख्या २४० । पूर्वोक्तषोडशशुद्धार्याभेदैक्ये सङ्ख्या २५६ ॥ ११॥ इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां गीतिप्रकरणम्॥ मात्राच्छन्दसां प्रकृतत्वाद्वैतालीयप्रकरणमारभतेषड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ॥ न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥१२॥(१) वैतालीये छन्दसि विषमे, अर्थात्पादे, प्रथमे तृतीये च षट् कला मात्राः स्युः । समे पादे द्वितीये चतुर्थे चाष्टौ कलाः स्युः । अन्ते उक्तानां कलानामन्ते परस्ताद् रलौ रगणलघू गुरुश्च भवतीति वैतालीयस्वरूपपरिच्छेदः । एतदुक्तं भवति विषमे पादे चतुर्दश, समे च षोडश मात्राः कार्याः । तन्मध्येऽन्तिमा अष्टौ मात्रा रेफलघुगुरुभिः कार्या इति । विषमे पश्चात्षट् समेऽष्टौ अवशिष्यन्ते, तासां निवेशने नियमविशेषमाह-ताश्चेति। समे ताः षट कला निरन्तराः नो न स्युः केवलाः षट् लघव एव न कार्याः, किं तु गुरुमिश्रा इत्यर्थः । समे विशेषोक्तया विषमे स्वरुचिः । (१) उदाहरणान्तरं यथा छन्दोवृत्तौषण्मात्राः र. ल. गु. अष्टौमात्राः र. ल. गु. क्षत्क्षीणश-रीरस-च-या व्यक्तीभूतशि-रोऽस्थिप-ज राः॥ 55 ।।,515 1, 5, 555।। । । । . ष. मा. र. ल. गु. अ. मा. र. ल. गु. ---- -- -- - - कैशैः परु-बैस्तवा-र- यो वैतालीयत-नुं वित- न्व- ते ssilsis, 1 S sss ll5 IS, 1 s.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy