________________
नारायणभट्टीसहितवृत्तरत्नाकरेन्मात्रताम् , उत्तरार्धस्यैकोनत्रिंशन्मात्रतां चाभिप्रेत्य व्याचक्षते । भवतु नामैतद्वयाख्याकौशलम् , किं तु बहूनामसम्मतम् , सूत्राननुगुणं च, "अधे वसुगण आर्यागीतिः" (पिं० स०४-३१ ) इति हि सामान्यतोऽर्धे वसुगणेऽष्टगणे सतीति । यद्वा द्वे अप्यर्धे यद्यष्टगणे स्यातामिति सूत्रकार आह । कैश्चित्त्वियं सङ्गीतिरिति संशिता । अपरैः स्कन्धकमिति । गीतीनामप्यार्यापूर्वकत्वादार्यात्वमस्त्येव । एताश्चतस्रोऽपि गीतयः प्रत्येक पथ्यादिपूर्वोक्तषोडशप्रकारार्यासम्भिन्नतया षोडशेति मिलिताश्चतुःषष्टिः पूर्वाश्च षोडशार्या इति मिलित्वाऽशीतिः । तदुक्तं हलायुधेन
एकैव भवति पथ्या तिस्रो विपुलास्ततश्चतस्रस्ताः। चपलाभेदैस्त्रिभिरपि भिन्ना इति षोडशार्याः स्युः॥ गीतिचतुष्टयमित्थं प्रत्येकं षोडशप्रकार स्यात् । साकल्येनार्याणामशीतिरेवं विकल्पाः स्युः ॥ इति । छन्दोविचितौ त्वेकादशाऽपरे गीतिभेदाः प्रदर्शिताः। ते यथा, आर्यैव दलद्वयेऽप्यधिकैकगुरुयुता सङ्गीतिः । ममैव यथा--
आगमविद्यैकनिधिविबुधेन्द्रशतैरधीतनिगमविलासः । रामेश्वरभट्टगुरुर्जयति पिता मे पितामहतुल्यः ॥ (१) पूर्वार्ध एवाधिकैकगुरुयुकू सुगीतिर्नाम । पितामहगुरुरिति पठित्वा पूर्वमेवोदाहरणम् (२)। यद्युत्तरार्ध एव तागृक्तदा प्रगीतिर्नाम । 'अधीतनिगमार्थः' इति पठित्वा प्रथममेवोदाहार्यम् (३) । सुगीतिरेव व्यत्यस्तार्धानुगीतिः। सुगीत्युदाहरणमेव व्यत्यस्ताधं शेयम् (४)। प्रगीतिरेव व्यत्यस्तार्धा मञ्जुगीतिः । प्रगीत्युदाहरणं व्यत्यस्तार्धमत्रोदाहरणम् (५) । यधुपगीतिरर्धद्वयेऽप्यधिकैकगुरुयुक् स्यात्तदा विगीतिः । ममैव यथा
विषयान्विषधरविषमान्संसृतिमपि नीरसां ज्ञातवतः।
संसारसारभूते दशरथबाले मतिः स्थैर्यमियात् ॥ (६) ॥ यद्यनीतिईयोरप्यर्धयोरधिकगुरुयुक्ता तदा चारुगीतिः । अत्र पूवोक्तं सङ्गीत्युदाहरणमेव विपर्यस्ताधं ज्ञेयम् (७)। आर्यागीतेरेवैकगुरुहीनो,त्तरार्धतायां वल्लरीत्वम् । ममैव यथा
पीनोन्नतकुचकलशा पीवरजघनोरुभारमन्थरयाता ।
पश्यन्ती प्रणयदृशा तरुणी कं वा न चालयेत्पुरुषम् ॥ (6)। तस्या एव पूर्वाध एव तथात्वे ललितेतिसंज्ञा अर्धयोर्व्यत्यासेनाऽनन्तरमेवोदाहरणम् (९) उपगीतिरेवाद्यार्धेऽधिकैकगुरुयुता प्रमदा