SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरे I पूर्वोक्ते नष्टाङ्के हृते लब्धं त्रिनवतिसहस्राणि यधिकानि षट्शतानि च शेष एकाङ्क इति । प्रथमगणविकल्पेषु प्रथमः सर्वगुरुः स्थाप्यः । लब्धे सैके कृते द्वितीयगणस्य पञ्चविकल्पत्वात्तैर्भक्ते लब्धं सहस्राण्यष्टादश विंशत्यधिकसप्तशती च शेषास्त्रय इति । तद्विकल्पेषु तृतीयो मध्यगुरुः स्थाप्यः । लब्धे सैके तृतीयस्य चतुर्विकल्पत्वात्तैर्भक्तं लब्धमशीत्यधिकषट्चत्वारिंशच्छती शेष एक इति । तद्विकल्पेष्वाद्यः सर्वगुरुः कार्यः । लब्धे सैके चतुर्थः पञ्चविकल्प इति पञ्चभिर्भागे लब्धं नवशती पत्रिंशदधिका शेष एक इति । तद्विकल्पेष्वाद्यः सर्वगुरुः स्थाप्यः । लब्धे सके पञ्चमस्य चत्वारो विकल्पा इति तैर्भक्ते लब्धं चतुस्त्रिंशदधिकं शतद्वयं शेष एक इति । तद्विकल्पेषु सर्वगुरुः स्थाप्यः । लब्धे सैके षष्ठस्य जगणन्लयोरेव विकल्पाद् द्वाभ्यां भक्ते लब्धं सप्ताधिकं शतं शेष एक इति । तद्विकल्पयोराद्यो मध्यगुरुः स्थाप्यः । लब्धे सैके सप्तमस्य चत्वारो विकल्पा इति, तैर्भक्ते लब्धं एकोनत्रिंशत् शेषं द्वयमिति । I कल्पेषु द्वितीयोऽन्तगुरुः । ततः सर्वार्यानियतं गुरु ं न्यसेत् । एवं पूर्वार्धं स्थितम् । ततो लब्धे सैके आर्योत्तरार्धादिगणश्चतुर्विकल्प इति चतुर्भिर्भक्ते लब्धं सप्त रोषं द्वयमिति । द्वितीयविकल्पोऽन्तगुरुः । लब्धे सै द्वितीयस्य पञ्च विकल्पा इति तैर्भक्ते लब्धमेकः शेषं त्रय इति । तृतीयविकल्पो मध्यगुरुः । लब्धे सैके तृतीयश्चतुर्विकल्प इति चतुर्भिभं लब्धं शून्यं शेषं द्वे इति । द्वितीयविकल्पोऽन्तगुरुः । लब्धे शून्ये सैके चतुर्थः पञ्चविकल्प इति पञ्चभिर्भागे लब्धं शून्यं शेष एक इति । प्रथमविकल्पः सर्वगुरुः । लब्धे सैके पञ्चमश्चतुर्विकल्प इति तैर्भक्ते लब्धं शून्यमवशेष एक इति । प्रथमः सर्वगुरुः । अन्त एको गुरुर्लेख्यो नियतत्वात् । एवं सत्येतादृशीयमिति पूर्वोक्तमेवार्यां वदेत् । तदुक्तम्नष्ट प्रथमे भक्ते गणाकैश्चतुरादिकैः । शेषसङ्ख्यो गणो शेयो लब्धं कुर्यात्सरूपकम् । पुनर्भजेत्पुनर्लब्धं सरूपं शेषसङ्ख्यया । गणान्दद्याद्वते शेषे गाथायाः प्राग्गणक्रमः ॥ इति । एवमार्यान्तरेषु गीत्यादिषु च ज्ञेयम् । इत्यार्यानष्टविधिः ॥ अथ काँश्चिदार्याविशेषानाह त्रिष्वंशकेषु पादो दलयोराधेषु दृश्यते यस्याः । पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥ ३ ॥ (१) (१) अत्रोदाहरणान्तरं यथा सामुद्रिकतिलके
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy