________________
नारायणभट्टीसहितवृत्तरत्नाकरे
षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ॥
चरमेऽर्थे पञ्चमके तस्मादिह भवति षष्ठो लः॥२॥ (१) आर्यायाः प्रथमेऽधैं एतनियतं सार्वत्रिकं लक्ष्म लक्षणं ज्ञेयम् । किं तत् । सप्तसङ्ख्याका गोपेता गुरुणा युक्ता गणाश्चतुर्मात्राः पूर्वोक्ताः । गुरूपेतत्वोक्तया यद्यपि "स्वरा अधं चार्यार्धम् (पिं०स० ) इति सूत्रे अधं चेति ग्रहणात्सार्धाः सप्त गणा भवन्तीति सामान्यत उक्तम् , तथाप्यर्धगणस्थाने एको गुरुरेवान्ते कार्यः, न तु लद्वयमिति सचितम् । इहार्याधैं । विषमे प्रथमतृतीयादौ । स्थाने जो जगणो मध्यगुरुर्गणो न कार्यः। षष्ठस्त्वयं जगणः कार्यः । नलघु वा कायौं । नश्च लघुश्चेति नलघ । चर्तुलघुर्वा गणः कार्य इत्यर्थः। अन्ये तु स्वेच्छया क्षेयाः । षष्ठे इति । द्वितीयलादित्यतः परं पूर्वमिति शेषः । षष्ठे न्ले षष्ठस्थाने चतुलंघौ गणे कृते सति द्वितीयलात्तस्यैव षष्ठस्य चतुर्लघोर्गणस्य द्वितीयलघोः पूर्व प्रथमलध्वनन्तरं सयतिपदनियमो यतिसहितं पदं नियमेन समाप्यत इत्यर्थः । 'न्ले' इति प्रथमाद्विवचनं वा । ततश्च षष्ठे स्थाने यदि न्ले नलघू स्याताम्, तदा द्वितीयलात्पूर्व यतिरित्यर्थः । परके न्ल, न-ले षष्ठापेक्षया परस्मिन्सप्तमे चतुर्लघौ कृते सति, मुखलात्सप्तमस्य प्रथमलघोः पूर्व षष्ठगणान्ते सयति पदं नियम्यते । चरमे द्वितीये पुनरर्धे पश्चमके न्ले चतुर्लघौ तस्मान्मुखलघोः पूर्वम्, अर्थाश्चतुर्थान्ते, पद्धं समाप्यत इत्यनुषङ्गेण पूर्वपदाध्याहारेण च योज्यम् । इहेति । इहार्याचरमांर्धे षष्ठो गणो लो लघुरेव भवति । न चतुर्मात्रिक इति पूर्वार्धाद्विशेषः । उत्तराधे एतावन्मानं विशेष वदताऽन्यत्पूर्वार्धलक्षणमेव भवतीति द्योतितम् । यतिनियमं छन्दोमाणिक्यकारोऽप्याह
पूर्वाधे षष्ठो जः खो बा खे चास्य लघुनि भवति यतिः।
षष्ठः खपरोऽत्र यतिस्तुर्योऽप्यथ भवति चरमदले ॥ इति । (१) षष्ठनलघुपते पार्योदाहरणं यथा छन्दोमञ्जर्याम्स.गु.१ ज. २ स.गु. ३स.गु. ४ अं.गु.५ नलघू.६ अं.गु.७ गु. ८ - - -
- -- - - -- - - - -- - वृन्दा-वने स-लीलं वल्गु-दुमका-एडनिहित-तनुय–ष्टिः॥ s, ।।, 55, 55, ।। ।।।।, ।।s, s, प्रा.गु.१ प्रा.गु.२ स.गु.३ स.गु. ४ नलघू ल. ६ स.गु.७ गु. ८
- - -- - - - स्मेरमु-खार्पित-वेणुः कृष्णो यदि मन-सि कः स्व-र्गः॥ 5।। ।। ss, 55, ।।।।, ।, 55, 5,