________________
नारायणभट्टीसहितवृत्तरत्नाकरे(पिं. स.२-२) "का गुहा र", (पिं.स.२-३) “वसुधा स्”, (पिं. स.२-४) "सा ते क्व त्", (पिं. स. २-५) "कदा स ज्', (पिं. सू.२-६) "किं वद भू",(पिं. सू.२-७) "न हसन्”, (पिं. सू.२-८) "ल” (पिं. सू.२-६) "गन्ते” (पिं.स.२-१०) इति ॥ ६॥ क्रमेण गणांलक्षयति
सर्वगुर्मो मुखान्तलौं यरावन्तगलौ सतौ। ग्मध्याद्यौ ज्भौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः॥७॥ अत्र छन्दःशास्त्रेऽष्टौ त्रिकास्थ्यतरां गणा भवन्ति । चतुरक्षरा गणा मा भूवन्निति त्रिका इत्युक्तम् । परिमाणे कन् । तानाह–सर्वेति । सर्वे गवो गुरवो यस्मिन्नसौ सर्वगुः । 'नामैकदेशे नामग्रहणम्' इति न्यायेन सुशन्दो गुरुवाची । एवं लशब्दो लघुवाची । एवं सर्वत्र । मो भगणः । सादावन्तमध्ये लो लघुर्ययोस्तौ य-रौ यगण-रगणौ । अन्ते गलौ गुरुलघू ययोस्तौ क्रमेण स-तौ सगण-तगणौ । ग-गुरुमध्य आद्यश्च ययोस्तौ जु-भौ जगण-भगणौ । त्रिलखिलघुनों नगणः। एतेषां प्रस्तारो यथा
_मः यः . रः सः तः जः भः नः
sss, Iss, sis, us, ss), ISI, su,।।।, एतेषां क्रमनियमच प्रस्तारे प्रकटीभविष्यति। अन्यत्रापि मादीनां स्वरूपमुक्तम्
मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः ।
जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुःकथितोऽन्तलघुस्तः ॥ इति । अन्यैस्तु देवताफलस्वरूपाण्येषामुक्तानि
मो भूमिस्त्रिगुरुः श्रियं दिशति, यो वृद्धिं जलं चादिलो, ... रोऽग्निमध्यलघुर्विनाशमनिलो देशाटनं सोऽन्त्यगः ॥ तो व्योमान्सलधुर्धनापहरणं, जोऽर्को रुजं मध्यगो,
भश्चन्द्रो यश उज्वलं मुखगुरु,नों नाक आयुस्त्रिलः ॥ इति । - इदं च फलं काव्यनायकस्य तत्कतुः पठितुर्वा,यथायोग्यं व्यस्तं समुश्चितं वा शेयम् । यत्र नायकादिभिः प्राचीनो देवतादिः स्वकल्पितो वा तत्र कर्तुः श्रोतृणां चेत्यादि । क्वचित्तु देवतामात्रमवादि
पृथ्वीजलशिखिवाता गगनं सर्यश्च चन्द्रमा नाकः । प्रस्तारक्रमवशतो देवा शेया यथासङ्ख्यम् ॥ इति। .