SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६४ • सुवृत्ततिलकम् । वसन्ततिलकं भाति सङ्करे वीररौद्रयोः ॥ कुर्यात्सर्गस्य पर्यन्ते मालिनीं द्रुततालवत् ॥ १६ ॥ वाररौद्रयोर्यथा रत्नाकरस्य जृम्भाविकासितमुखं नखदर्पणान्तराविष्कृतप्रतिमुखं गुरुरोषगर्भम् ॥ रूपं पुनातु जनितारिचमूविमर्शमुद्वृत्तदैत्यवधनिर्वहणं हरेर्वः ॥ सर्गान्ते यथा कालिदासस्य — अवचितबलिपुष्पा वेदिसम्मार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री ॥ गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमित परिखेदा तच्छिरश्चन्द्रपादैः ॥ उपपन्नपरिच्छेदकाले शिखरिणी मता ॥ श्रौदार्य रुचिरौचित्यविचारे हरिणी वरा ॥ २० ॥ उपपन्नपरिच्छेदे यथा भर्तृहरेः भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विचित्रालापानां वयमपि कवीनामनुचराः ॥ तथाप्येवं ब्रूमो न हि परहितात्पुण्यमपरं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ औदार्येऽप्यस्यैव- विपुलहृदयैरन्यैः कैश्चिज्जगज्जनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ॥ इह हि भुवनान्यन्ये धीराचतुर्दश भुञ्जते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः । साक्षेपक्रोधधिक्कारे परं पृथ्वी भरक्षमा ॥ प्रावृप्रवासव्यसने मन्दाक्रान्ता विराजते ॥ २१ ॥ साक्षेपे यथा यशोवर्मणः- स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमबन्ध्यतामधिपयोधि सान्ध्यो विधिः ॥ तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा क स क स दशाननो ननु निवेद्यतां राक्षसः ॥ प्रावृट्प्रवासे यथा कालिदासस्य - तस्मिन्नौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy