SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आरम्भे यथा भर्तृमेण्ठस्य आसीद्दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः ॥ प्रथयन्ति बलं बाहोः सितच्छत्रस्मिताः श्रियः ॥ कथाप्रसङ्गे यथाभिनन्दस्य - तस्यां निजभुजोद्योगविजितारातिमण्डलः ॥ आखण्डल इव श्रीमान्राजा शूद्रक इत्यभूत् ॥ शमोपदेशे यथा मम - - पृथुशास्त्र कथाकन्थारोमन्थेन वृथैव किम् ॥ अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैज्र्ज्योतिरान्तरम् ॥ शृङ्गारालम्बनोदारनायिकारूपवर्णनम् ॥ वसन्तादि तदङ्गं च सच्छायमुपजातिभिः ॥ १७ ॥ रूपवर्णनं यथा कालिदासस्य -- तृतीयो विन्यासः । मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ॥ आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ वसन्तवर्णनं यथास्यैव- बालेन्दुवक्राण्यविकासभावा द्वभुः पलाशान्यतिलोहितानि ॥ सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ रथोद्धता विभावेषु भव्या चन्द्रोदयादिषु ॥ बाङ्गुण्यप्रगुणा नीतिर्वंशस्थेन विराजते ॥ १८ ॥ चन्द्रोदये यथास्यैव - अङ्गुलीभिरिव केशसञ्चयं सन्नियम्य तिमिरं मरीचिभिः ॥ कुड्मलीकृत सरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ नीतिर्यथा भारवेः श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुक्त वेदितुम् ॥ सवर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ २६३
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy