________________
२५२
सुवृत्ततिलकम् । यथा कालिदासस्य
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः॥ दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ उपजातिविकल्पानां सिद्धो यद्यपि सङ्करः ॥
तथापि प्रथमं कुर्यात्पूर्वपादाक्षरं लघु ॥ ६॥ यथा श्रीमदुत्पलराजस्य
हृताञ्जनश्यामरुचस्तवैते
___ स्थूलाः किमित्यश्रुकणाः पतन्ति ॥ भृङ्गा इव व्यायतपतयो ये
तनीयसी रोमलतां श्रयन्ति ॥ सूत्रस्येवात्र तीक्ष्णाग्रं श्लोकस्य लघुना मुखम् ॥ कर्ण विशति निर्विघ्नं सरलत्वं च नोज्झति ॥ ८॥ गुर्वक्षरेण संरुद्धं ग्रन्थियुक्तमिवाऽग्रतः॥
करोति प्रथम स्थूलं किंचित्कर्णकदर्थनाम् ॥ ८॥ यथा कालिदासस्य--
अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ॥ पूर्वापरौ तोयनिधी वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥ ध्यक्षरैयक्षररेव च्छेदैराभाति दोधकम् ॥ . अतोऽल्पैरधिकैर्वापि यति तालमिवोज्झति ॥ ६ ॥ यथा मम---
सज्जनपूजनशीलनशोभा
मर्जय वर्जय दुर्जनसङ्गम् ॥ दुस्तरसंसृतिसागरवेगे
मज्जनकारणवारणमेतत् ॥ अतोऽल्पाधिकैर्यथा तुजीरस्य--
त्वन्मुखचन्द्रनिरीक्षणवा
__ यः सुतरामिह निर्मलनेत्रः ॥ सर्वजनस्य पुरः स्थितमेत
त्सोऽन्तकवर्त्म न पश्यति चित्रम् ॥ शालिनी श्लथबन्धैव स्वभावेन विभाव्यते ॥ उत्तेजयेत्तां यत्नेन मन्ददीपशिखामिव ॥ १० ॥