________________
षष्ठः स्तबकः ।
२५
भवेदुत्कलिकापायं समासाढ्यं दृढाक्षरम् ॥ .
वृत्तैकदेशसम्बन्धाद्वृत्तगन्धि पुनः स्मृतम् ॥ ४ ॥ वृत्तकं यथा
स हि त्राणामेव जगतां गतिः परमपुरुषः पुरुषोत्तमो दृप्तदानवभरेण भङ्गराङ्गीमवनिमवलोक्य करुणाहृदयस्तस्या भारमवतारयितुं रा. मकृष्णस्वरूपेणांशतो यदुवंशेऽवततार । यस्तु प्रसङ्गेनापि स्मृतोऽभ्यचितो वा गृहोतनामा पुंसां संसारसागरपारमवलोकयति ।
उत्कलिकाप्रायं यथा
प्रणिपातप्रवणसप्रधानाशेषसुरासुरादिवृन्दसौन्दर्यप्रकटकिरोटकोटिनिविष्टस्पष्टमणिमयूखच्छटाच्छुरितचरणनखचक्रविक्रमोद्दामवामपादाङ्गटनखशिखरखण्डितब्रह्माण्डविवरनिःसरच्छरदमृतकरप्रकरभासुरसुरवाहिनीप्रवाहपवित्रीकृतविष्टपत्रितय ! कैटभारे ! क्रूरतरसंसारसागरनानाप्रकारावर्तविवर्तमानविग्रहं मामनुगृहाण ।
वृत्तगन्धि यथा
जय जय जय जनार्दन सुकृतिमनस्तडागविकस्वरचरणपद्म पद्मपात्र. नयन ! पद्मापभिनीविनोदराजहंस! भास्वरयशःपटलपरिपूरितभुवनकुहर ! हरकमलासनादिवृन्दारकवृन्दवन्दनीयपदारविन्दद्वन्द्व । द्वन्द्वनिमुक्त! योगीन्द्रहृदयमन्दिाविष्कृतनिरञ्जनज्योतिःस्वरूप! नीरदरूप !विश्वरूप! अनाथनाथ! जगन्नाथ! मामनवधिभवदुःखव्याकुलं रक्ष रक्ष रक्ष ।
व्यवहारोचितं प्रायो मया च्छन्दोऽत्र कीर्तितम् ।। प्रस्तारादि पुनर्नोक्तं केवलं कौतुकं हि तत् ॥ ५ ॥ सगैः षोडशभिः समुज्ज्वलपदैनव्यार्थभव्याशयैः __ येनाकारि तदच्युतस्य चरितं काव्यं कविप्रीतिदम् ।। कंसारेः शतकं दिनेशशतकद्वन्द्वं च तस्यास्त्वसौ . गङ्गादासकवेः श्रुतौ कुतुकिनां सच्छन्दसां मञ्जरी ॥ ६ ॥ इति छन्दोमञ्जर्या गद्यप्रदो नाम षष्ठः स्तबकः ।
समाप्तोऽयं ग्रन्थः ।
oooo