________________
२३८
छन्दोमञ्जर्याम्
पद्मपलाशैर्विरचितशयना देहज सज्वरभर परिदुनैनिश्वसती सामुहरतिपरुषं ध्यानलये तव निवसति तन्वी ॥ ( २५ ) अतिकृतिः । ( पञ्चविंशत्यक्षरा वृत्तिः । )
क्रौञ्चपदा स्याद्भो मसगावेदिषुशरवसुमुनियतिमनुलघुगैः ॥ १ ॥ क्रौञ्चपदालीचित्रिततीरा मदकलखगकुलकलरुचिरा
फुल्लसरोजश्रेणिविलासा मधुमुदितमधुपरभसकरी ॥ फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिम किरणजा ॥ ( २६ ) उत्कृतिः । ( षडूविंशत्यक्षरा वृत्तिः । )
वस्वीशाश्वैश्वेदोपेतं ममतनयुगलसजजगैर्भुजङ्गविजृम्भितम् ॥ १ ॥
हेलोदञ्चन्यञ्चत्पादप्रकट विकटनटनभरो रणत्करतालकवारुप्रेच्चूडावः श्रुतितरलनव किसलयस्तरङ्गित हारधृक् ॥ त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायान्नश्छिन्दन् कालिन्दीहद कृतनिजवस तिबृहद् भुजङ्गविजृम्भितम् ॥
दण्डकः ।
यदिह नयुगलं ततः सप्तर फास्तदा
चण्डवृष्टिपातो भवेद्दण्डकः ।। १ ।। प्रलयघनघटा महारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं सपदि समवलोक्य सव्येन हस्तेन गोवर्धनं नाम शैलं दधल्लीलया ॥ कमलनयन ! रक्ष रक्षेति गर्जन्त्र सन्मुग्धगोपाङ्गगानन्दितो गलदभिनवधातुधाराविचित्राङ्गरागो मुरारातिरस्तु प्रमोदाय नः ॥
प्रतिचरणाविवृद्धरेफाः स्युरर्णोऽर्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ २ ॥
जयजयजगदीशविष्णोहरेरामदामोदरश्रीनिवासाच्युतानन्तनारायण त्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बर श्रीपते माधव ॥ गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वम्भरोपेन्द्र चक्रायुधाधोक्षज श्रीनिधे बलिदमननृसिंहशौरेभवाम्भोधिघोरार्ण सित्वं निमज्जन्तमभ्युद्धरोपेत्यमाम् ॥ एवमर्णवादीनामप्युदाहरणानि बोध्यानि ।
1