________________
२१८
छन्दोमार्याम्
(८) अनुष्टुप् । (अष्टाक्षरा वृत्तिः ।) चित्रपदा यदि भौ गौ॥१॥
यामुनसैकतदेशे गोपवधूजलकेलौ ।
कंसरिपोर्गतिलीला चित्रपदा जगदव्यात् ॥ भात्तलगा माणवकम् ॥ २॥ - 'चञ्चलचूडं चपलैत्सकुलैः केलिपरम् ।
ध्याय सखे ! स्मेरमुखं नन्दसुतं माणवकम् ॥ मो मो गो गो विद्युन्माला ॥३॥
वासोवल्ली विद्यन्माला बहश्रेणी शाक्रश्चापः।
यस्मिन्नास्तां तापोच्छित्यै गोमध्यस्थः कृष्णाम्भोदः ॥ ग्लो रजौ समानिका तु॥४॥
यस्य कृष्णपादपद्ममस्ति हृत्तडागसद्म।
धीः समानिका परेण नोचिताऽत्र मत्सरेण ॥ प्रमाणिका जरा लगौ ॥ ५ ॥
पुनातु भक्तिरच्युता सदाच्युताघ्रिपद्मयोः ।
श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका ॥ 'मतल्लिका मचर्चिका' इत्यमरकोषः । नभलगा गजगतिः ॥६॥
रविसुतापरिसरे विहरतो दुशि हरेः । व्रजवधूगजगतिर्मुदमलं व्यतनुत ॥ अवतु वो गिरिसुता शशिभृतः प्रियतमा। वसतु मे हृदि सदा भगवतः पदयुगम् ॥ इति कस्यापि ।
(९)बृहती । (नवाक्षरा वृत्तिः ।) भुजगशिभृता नौ मः ॥१॥
ह्रदतटनिकटक्षोणी भुजगशिशुभृता यासीत् ।
मुररिपुदलिते नागे व्रजजनसुखदा साभूत् ॥ 'सृता' इत्येवं शम्भुप्रभृतिषु पाठः । 'वृता' इत्येवमाधुनिकाः पठन्ति । स्यान्मणिमध्यं चेद्भमसाः ॥२॥
कालियमोगाभोगगतस्तन्मणिमध्यस्फीतरुचा।
चित्रपदाभो नन्दसुतश्चारु ननर्त स्मेरमुखः ॥ सनरैर्भुजङ्गसङ्गता ॥ ३॥