________________
१६६
नारायणभट्टी सहित वृत्तरत्नाकरे
1
जातः स इष्टवृत्तसङ्ख्या ज्ञेयेति । अत्रोदाहरणम् - गायत्रे षट्संङ्ख्यायामasutra h स्थापिते श्रवशिष्टास्त्रयस्तेषु रूपमपनीय द्व्यङ्काधः शून्यं स्थाप्यम् । यथा- २ ० श्रवशिष्टद्विसङ्ख्यातोऽर्धेऽपनीते शुन्याधो द्विसङ्ख्या लेख्या । यथा - २ । ० । २ । ततोऽवशिष्टं रूपं तदपनीय यङ्काधः शून्यं स्थाप्यम् । यथा- २ । ० । २ । ० अधः शून्ये एकाङ्क द्विगुणं न्यस्य तं मर्धस्थाने स्थितमपनीय तत्स्थाने निधाय तं तावद्गुणं कुर्यात् । ततो द्वौ द्वाभ्यां गुणितौ चत्वारो भवन्ति तेषामुपरिष्टाच्छून्यस्थाने तं निधाय शुन्यस्थानाङ्कत्वाद् द्विगुणयेत् । ततोऽष्टौ भवन्ति । तानप्यर्धस्थाने निधाय तावद्गुणान्कुर्यात् तेनाष्टावष्टभिर्गुणिताश्चतुःषष्टिर्भवन्ति गायत्र्यां समवृत्तानि । एवं सर्वत्र समवृत्तसङ्ख्या ज्ञेया । सा च तत्र तत्र दर्शितैव । यदा तु शुद्धार्धसमवृत्तसङ्ख्यां जिज्ञासेत तदा समसङ्ख्या तथैव गुणनीया सिद्धेऽङ्के समसङ्ख्यां पातयेत् । श्रवशिष्टा शुद्धार्धसमसङ्ख्या भवति । यथा त्र्यक्षरे समसङ्ख्या ८ तैरेव गुणिताश्चतुःषष्टिस्तन्मध्येऽष्टस्वपनीतेषु षट्पञ्चाशच्छुद्धार्धसमानि । एवं सर्वत्र । यदा तु तत्तजातिषु शुद्धविषमसङ्ख्या जिज्ञासिता तदा सङ्ख्यायां तयैव गुणितायां या साता तां पुनस्तयैव गुणयेत् । सिद्धेऽङ्के समार्धसमे अपनीय शिष्टा सङ्ख्या शुद्धविषमस्य । यथा - त्र्यक्षरे समानि (८) तैरेव गुणने चतुःषष्टिः ६४ पुनरेतयैव तद्गुणने चत्वारि सहस्राणि परणवतिः । श्रङ्कतोऽपि ४०९६ । समार्धसममेलने ६४एतेष्वपनीतेष्ववशिष्टं ४०३२ इयं शुद्धा विषमसङ्ख्या । यदा तु समार्धसमविषमाणि समुदितानि तदा समार्धसमे नापनेये । पूर्वैव तत्सङ्ख्या । एवमन्यत्राऽपि ज्ञेयम् । यदैतज्जात्यन्तानि कति समवृत्तानि इति सङ्ख्या जिज्ञासा तदा विवक्षितप्रान्तच्छन्द:समवृत्तसङ्ख्यां द्विगुणयेत् तन्मध्ये द्वावपनयेत् । शिष्टा विवक्षितजातिपर्यन्तानां समवृत्तसङ्ख्या । यथा चतुरक्षरे षोडश समवृत्तानि तेषां द्वैगुण्ये द्वात्रिंशत् । द्वयोरपनये तदन्तानां सङ्ख्या ३० । एवमुत्कृतेर्भेदाः षट्कोट्य एकसप्ततिर्लक्षाणि श्रष्टौ सहस्राणि अष्टौ शतानि चतुःषष्टिश्चेति । श्रङ्कतोऽ पि ६७१०८८६४ । एतद्द्वैगुण्ये एतस्य द्वयोर्हाने च त्रयोदशकोट्यो द्वाचत्वारिंशल्लक्षाः सप्तदशसहस्राणि सप्तशतानि षड्विंशत्यधिकानि । श्र तोऽपि १३४२१७७२६ । एतावन्ति सर्वाणि समवृत्तानि । तदुक्तम्विवक्षितान्तजातेस्तु भेदा द्विगुणितास्ततः ।
,
द्विहीनाः सर्वसङ्ख्यायां ते स्युरुक्तादिजा इति ॥ ८ ॥
इति सङ्ख्यानम् ॥