________________
१६४ नारायणभट्टीसहितवृत्तरत्नाकरे
लगक्रियायां पूर्वोक्तायां येऽङ्काः सिद्धास्तेषां समूहे मिलिते योजिते सति योऽङ्कः सा सङ्ख्या भवेत् । व्यक्षरे यथा-१. ३. ३. १. एतेषामेकत्रिव्येकाङ्कानां मेलनेऽष्टौ प्रस्ताराः। चतुरक्षरे च-१. ४. ६. ४. १. ए. षामेकचतुःषट्चतुरेकाङ्कानां मेलने षोडश । प्रकारान्तरेण सङ्ख्यामाहउद्दिष्टेति। पूर्वोक्तानामुद्दिष्टानामङ्कानां सैक एकसहितः समाहारो मेलनम्, अथवेमा सङ्ख्यां जनयेदुत्पादयेत् । तद्यथा-व्यक्षरे एकद्विचतूरूपा उद्दिष्टाङ्काः सप्त एकमेलनेऽष्टौ सा तस्य सङ्ख्या, चतुरक्षरे च एकद्विच
सप्तमाशपर्यन्तं मर्कटीचक्रम् ।
जात्यङ्काः
२ भेदाः ३ सर्वमात्राः
सर्ववर्णाः
१
४ | ६ |
गुरवः
| लघवः
इति मात्रामर्कटीप्रकारः॥
अथ वर्णमकटी। · तत्र मात्रामर्कटीवत् चक्र विलिख्य प्रथमपङ्क्तिकोष्टेषु क्रमेण एकद्वित्रिचतुरांद्यङ्का यावदपेक्षं लेख्याः। द्वितीयपङ्क्तौ द्विचतुरष्टषोडशादयो वृत्तभेदाङ्का लेख्याः। तृतीयपङ्क्तौ तदूर्वस्थितकोष्ठद्वयद्वयस्थिताङ्कयोगुणनफलाङ्काः क्रमेण स्थाप्याः । चतुर्थपञ्चमपङ्क्त्योः तृतीयपङ्क्तिस्थि. ताकाङ्काः क्रमेण लेख्याः । षष्ठपङ्क्तौ पञ्चमपङ्क्तिस्थिताङ्कांत्रिगुणीकत्य येऽङ्का भवेयुस्तान् क्रमेण न्यसेत् । एवंच-पाद्यपङ्क्तिवृत्तवर्णसङ्ख्यासम्बोधिनी भवेत् । पङ्क्तिद्वितीया भवति वृत्तभेदविबोधिनी । तृतीया सर्ववर्णानां समाहाराङ्कमादिशेत् । चतुर्थी गुरुवर्णानां सनसङ्ख्यां प्रबोधयेत् । पञ्चमी लघुवर्णानां सर्वसङ्ख्यां समादिशेत् । षष्ठी च सर्वमात्राणां सर्वसङ्ख्यां प्रकीर्तयेत । इति सिद्धं वर्णमर्कटीचक्रम् । यथा--