________________
૨૫૮ ___ नारायणभट्टीसहितवृत्तरत्नाकरेपर्यन्तैः संयोज्य तृतीयकोष्ठाधः कोष्ठकान् कृत्वा तेषु लिखेत् , द्वितीयाङ्ककोष्ठाधःस्थरप्यङ्कस्तृतीयकोष्ठस्थितचतुरङ्क संयोज्य तस्यामेव पङ्क्तावधो लिखेत्, एवं चतुरङ्कमष्टादिभिः संयोज्याष्टमाङ्काऽधो लिखेत्, तद. धोऽपि चतुरङ्काधापङ्क्तिस्थैरष्टमाङ्क संयोज्य लिखेत् , एक सर्वत्र यावदङ्कसमाप्ति लेख्यम् । एवं क्रियमाणे यत्र प्रस्तारसङ्ख्याधिकसङ्ख्या पठ्यते सा न लेख्या । एकत्र लिखिता चापरत्र न लिखितव्या किन्तु तदग्रिमसङ्ख्यायोगस्तदधःसङख्यायोगो वा कार्यः । एवं सर्वत्र । तथा च प्रथमस्थाने सर्वगुरुः द्वितीयपङ्क्तिस्थेषु द्वितीयादिस्थानेषु वि. वक्षितसर्वगुरुमध्ये एकं न्यूनं कृत्वा तावद्गुरुकभेदस्थानानि । एवं तृती. यादिपक्तिष्वेकैकगुरुन्यूनप्रस्तारस्थानानि । यद्वा प्रथमः सर्वगुरुद्वितीयपड़तावेकलघुस्थानानि, तृतीयपक्तौ द्विलघुस्थानानीत्यादि क्षयम् । तदुक्तम्
एको द्वावथ चत्वारस्ततोऽष्टाविति वर्धनम् । पूर्व परेण संयोज्य तदधो लेखयेद् बुधः ॥ अन्तिमाकावधिं नैव लङ्घयदत्र कुत्रचित् । एकत्र लिखितं प्राज्ञः पुनरन्यत्र नो लिखेत् ॥
अत्रोदाहरणमेकाक्षरे १ । २ अस्य द्विविकल्पत्वादेकस्थानस्थ एकगुरुः, द्वितीयस्थ एकलघुरिति । एतावतैव सिद्धिः । द्यभरे यथा
अत्रैकाङ्कद्वयङ्कयोः संयोजने व्यङ्को द्वयङ्काधो लेख्यः, तस्य चतुविकल्पत्वात्तावतैव सिद्धिः । प्रथमस्थानस्थैकः सर्वगुरुः, द्वितीयतृतीयस्थानस्थौ एकगुरुरेकलघुर्वा, चतुर्थस्थानस्थः सर्वलघुरिति । व्यक्षरे यथा
अत्र पञ्चाङ्कस्य चतुरङ्कयोजनं न कार्यम् , नवमभेदाभावात् । तेन व्यङ्कस्य सतुरङ्कस्य संसृष्टौ सप्त षडधो निवेश्या इति ।