SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १५२ नारायणभट्टीसहितवृत्तरत्नाकरे इति ब्राह्मणादित्वाद्भावे ष्यञ् । ततस्तसिः । एतान्पूर्णस्थापितानङ्कानेकद्वयादिक्रमेणोपर्युपर्यङ्के निक्षिपेन्मेलयेत् । मेल्यमानाङ्कसम सङ्ख्याया उपरि क्षेपो मेलनं, न तु स्वस्यैव । स्वरूपतस्तत्स्थाने शून्यताप्रसक्तथा द्वितीयादिमेलनावृत्त्यभावापत्तेः । श्रधस्तनमेकाङ्कं तदुपर्येकाङ्के मेलयित्वा द्व्यङ्कं कुर्यात्, तं तृतीयैकाङ्के संयोज्य त्र्यङ्कं कुर्यादित्येवमुत्तरोतरं कुर्यादित्यर्थः । उपान्त्यस्याप्यन्तमेलने प्रसक्तेऽपवादमाह - उपा न्त्यत इति । उपान्त्यपर्यन्तं मेलनं कृत्वा तमन्त्येऽमेलयित्यैनं प्रत्यावृत्त्येकैकं त्यजन्निवर्तेत विरमेत् । श्रन्त्यश्च प्रथममेलने सर्वोपरितनः, द्वितीयमेलनावृत्तौ तदधभावी द्वितीयः, तृतीयावृत्तौ तदधोभावी तृतीय इत्येवमुत्तरोत्तरो ज्ञेयः । उपान्त्यश्चान्त्याघोभावी । प्रतिमेलनावृत्तकमेकमङ्क त्यक्त्वाऽधस्तनान्मेलयेदिति फलितार्थः । एकैकमिति वीप्सया सर्वाधस्तनाङ्कपर्यन्तं पुनः पुनर्मेलनावृत्तिः कार्येत्यसूसुचत् । सिद्धमाह - उपरीति । एवं कृतश्राद्यात्प्रथमाद् गुरोः सर्वगुरोर्भेदादुपर्यनन्तरमेकद्विव्यादीनां लघूनां क्रिया ज्ञेयेति शेषः । प्रथममेकः सर्वगुरुस्तदधस्तनाङ्कसङ्ख्या एकलघवः तदघोऽङ्कसङ्ख्या द्विलघवः, चतुर्थाङ्कसङ्ख्यास्त्रिलघवः, एवमघोभाव्यङ्कसङ्ख्याश्चतुर्लघ्वादिभेदा ज्ञेया इत्यर्थः । एवं प्रथमः सर्वगुरुः, द्वितीयाङ्के एकगुरवः, तृतीयाङ्के द्विगुरवः, चतुर्थाङ्के त्रिगुरवः, इत्यादिप्रकारेण गुरुक्रिया । अत्र त्र्यक्षरे उदाहरणं १. १. १. १. एवं सैका वृत्तवर्ण सङ्ख्यानेकाङ्काम्भ्यसेत् । चतुरक्षरे च यथा - १.१.१. १. १. ततोऽधस्तनमेकाङ्कं तदुपरिस्थैकाङ्के संयोज्य द्व्यङ्कं कुर्यात् । यथा -क्षरे १.१.२.१ चतुरक्षरे च यथा - १.१.१.२. १. द्वितीयं तृती मेलयेत् । श्रद्ये यथा - १.३.२.१. द्वितीये यथा - १. १. ३. २. १. तृतीयं चतुर्थे मेलयेत् । चतुरक्षरोदाहरणे १.४. ६.३.२. १. । त्र्यक्षरे तुन मेलयेत् । उपान्त्यतो निवर्तेतेत्युक्तेः । पुनरूयक्षरे ऽधस्तनं द्वितीये मेलयेत् । यथा - १.३.३.१. त्र्यक्षरे एतावतैव सिद्धिः चतुरक्षरे त्वधस्तनं द्वितीये मेलयेत् । यथा - १. ३. ३. ४. १. द्वितीयं तृतीये यथा - १.४. ६. ४. १. ततो मेलनं नास्ति । एवं त्र्यक्षरे एकः सर्वगुरुर्भेदः, त्रय एकलघवः, त्रयो द्विलघवः, एकः सर्वलघुरिति । गुरुक्रियायां त्वेकः सर्वगुरुः, त्रय एकगुरवः, त्रयो द्विगुरवः एकः सर्वलघुरिति सिद्धम् । चतुरक्षरे एकः सर्वगुरुः-- SSSS. चत्वार एकलघवः - 1SSS (१), ऽ । ऽ ऽ (२), ऽ ऽ । ऽ (३), ऽऽऽ । (४), षट् द्विलघवः - 1 1SS (१), । ऽ । ऽ (२), ऽ । । ऽ (३), । ऽ ऽ । (४), ऽ । ऽ। (५), 55 ।। (६), चत्वारस्त्रिलघवः-।।। ऽ (१), ऽ ।।। (२), । ऽ।। (३), ।। 5 । (४), एकः सर्वलघु भेदः - । । । । एवं गुरुभेदा श्रपि । एवं सर्वत्र । इति समलगक्रिया ॥ ,
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy