________________
: षष्ठोऽध्यायः।"
१५१
अथ मात्रावृत्ते उद्दिष्टम । उद्दिष्टवृत्तप्रस्तारं कृत्वा प्रथमकलायां प्रथमा दद्यात्, छितीयकलायां नष्टन्यायेन द्वयङ्कम्, ततस्तृतीयकलायामेकद्वयको मेलयित्वा व्यङ्कम्, चतुर्थ्या द्वित्र्यको , मेलयित्वा पञ्चाङ्कमित्येवां पूर्वपूर्वाङ्कद्वयमेलनं कृत्वोत्तरोत्तरकलायां न्यसेन्नष्टवत् । गुरौ तु मात्राद्वयस्य वर्तमानत्वादकासरार्थमेकोऽङ्क उपरि देयो द्वितीयस्त्वध इति विशेषः । एवमलेषु स्थापितेष्वन्त्यकलायां योऽङ्कस्तन्मध्ये गुरुशिरसि स्थिता येऽङ्कास्तानेकीकृत्य पातयेत्, अवशिष्टाङ्कसङ्ख्यां पृष्टवृत्तस्य जानीयात् । यथा-आद्यन्तगुरुः षट्कलप्रस्तारः कतिथ इति पृष्टे न्यासः
१३ ५ र | । ।
अत्र गुरुशिरस्येकाङ्काष्टाङ्को मिलितौ नव तेऽन्त्यकलास्थत्रयोदशस्वपनेयाः, अवशिष्टाश्चत्वारः। सा सङ्ख्योद्दिष्टप्रस्तारस्य । एवं सर्वेषु मात्रावृत्तेष्वपि शेयम् ।
इति मात्रोद्दिष्टम् ॥ तदुक्तम्पूर्णस्यां प्रथमः समोऽङ्क उपरि स्थाप्यो युगायां द्वयं __ संयुज्यकयुगौ त्रयं त्रिषु कलामूनि द्वयेन त्रयम् ॥ एकीकृत्य च पञ्चकं जलनिधावेवं कृते लुप्यते
शिष्टे तद्गुरुमूर्धकाङ्क इह चेदुद्दिष्टबोधस्तदा ॥ इति । आर्यासु तु प्रकारान्तरमपि तत्प्रकरण एवाभ्यधायि ॥ ५॥
इत्युद्दिष्टप्रकरणम् ॥
अथैकद्वयादिलगक्रिया। अथोक्तादिषु सर्वगुर्नेकलघुद्विलघुत्रिलध्वादिपादकवृत्तकथनद्वारा प्र. स्तारशोधनायैकद्वयादिलगक्रियामाह
वर्णान्वृत्तभवान्सैकानौत्तराधर्यतः स्थितान् ॥ एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥६॥ उपान्त्यतो निवर्तेत त्यजन्नेकैकमूलतः॥
उपर्याद्याद गुरोरकमेकद्वयादिलगीक्रया ॥७॥ उक्तादिवृत्तनिष्ठान्वर्णान्वर्णसङ्ख्याकानङ्कान्सैकानेकेनाधिकेन सहितानोत्तराधर्यत उत्तराधरभावेन स्थितान्कुर्यादित्यध्याहारः। औत. राधर्यत इति "गुणवचनब्राह्मणादिभ्यः कर्मणि च" (पा०स०५-१-१२४)