________________
पञ्चमोऽध्यायः
मलयकुहरे नववल्ली क्षिप्त्वा । चित्तं मनोभूः शरैर्हन्ति,
दूरदिगन्तरे कान्तः केन प्रकारेणात्मानमुद्धारयामि,
एवं परिमिलितो दुरन्तः॥) एतभेदाः सप्त । तत्र प्रथमतृतीयपञ्चमपादेषु चतुर्दशमात्रा कलभी (१), द्वितीयचतुर्थयोरेकादश सा नन्दा(२)प्रथमतृतीयपश्चमपादेषनविशतिद्धितीयचतुर्थयोरेकादश सा मोहिनी(३),विषमपादेषु पञ्चदश समयोरेकादश सां चारुसेनी(४),विषमेषु पञ्चदश समयो दश सा भद्रा(५) विषमेषु पञ्चदश द्वितीये द्वादश चतुर्थे एकादश स राजसेनः(६), विषमे. षु षोडश समयोरेकादश द्वादश वा सा तालकिनी(७)इति ।
इति नवपदप्रकरणम् ॥
अथ पद्मावती। विगुरुरन्तगुरुरादिगुरुः सर्वलघुरित्येतेश्चतुर्मात्रैः गणैः यथासम्भवं गणाष्टकघटितपादचतुष्टया पद्मावती। अत्र जगणो नायकपीडादिदोषदाता प्रतश्चण्डाल इत्युच्यतेऽतो न शुभः । यथा
भनभङ्गिा बङ्गा भग्गु कलिङ्गा तेलङ्गा रण मुक्कि चले। मरहट्ठा धिट्ठा लग्गिा कट्ठा सोरट्ठा भप्रपा पले ॥ चम्पा रण कम्पा पब्बी कम्पा ऊत्थाउत्थी जीउ हरे । कासीसर राणा किउ पत्राणा बिजाहर भण मन्तिबरे॥ ( भयभना वङ्गा भग्नाः कलिङ्गास्तैलङ्गा रणं मुक्त्वा चलिताः। महाराष्ट्रा धुष्टा लग्नाः काष्ठासु सौराष्ट्रा भयेन पादे पतिताः॥ चम्पा रणे कम्पिता पर्वताः कम्पिता उत्थायोत्थाय जीवं हरन्ति । काशीश्वरे राजनि कृतप्रयाणे विद्याधरो भणति मन्त्रिवरः॥)
इति पद्मावती॥
अथ कुण्डलिका। पूर्वोक्ताया दोहाया यद्यकमर्धमपरं चाधं पूर्वोक्तलक्षणकाव्येन युक्तं तदिदं चतुश्चत्वारिंशदधिकशतमात्राभिः श्रृङ्खलायमकानुप्रासवद गुणालकारवत्कुण्डलिकाख्यं छन्दः । अत्र चाविरम्य कुण्डलिकारेण पठनात्कुएडलिकेति संज्ञा । यन्मते दोहा द्विपदा तन्मतेनेयं षट्पदा, यन्मते दोहा चतुष्पदा तन्मते कुण्डलिकाष्टपदेति । यथा
ढोला मारिन ढिल्लिमह मुच्छिा मेच्छसरीर । पुर जजल्ला मन्तिबर चलिश्र बीर हम्मीर ।