________________
१२६
नारायणभट्टीसहितवृत्तरत्नाकरे
यथा माघे
तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः
प्रमथितभूभृतःप्रतिपथं मथितस्य भृशं महीभृता ॥ परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय
श्विरविगतश्रियो जलनिधेश्च तदाऽभवदन्तरं महत् ॥ (शि०३-८२) त्रिःसप्तसु यतिः । एवमादीनि वृत्तानि प्रस्तारमहाकविप्रयोगेषु दृश्यमानानि गाथाख्यानि । यदा तु 'यंच्छन्दो नतिमत्र' इति विषमाक्षरपादमित्यस्य विशेषणं तदा समच्छन्दसां गाथात्वाभावादेतानि त्रिष्टुबादिष्वेव द्रष्टव्यनि । एवमन्यान्यपि च्छन्दांसि कविप्रयोगानुरोधाज्ञयानि, समाधसमविषमप्रस्तारेषु तेषामुपलम्भात् । विशेषसंज्ञाऽशानात्तु नोदाहृतानि । ____एतजातिवृत्तात्मना द्विविधमपि च्छन्दो न केवलं संस्कृतविषयम् । किंतु प्राकृतदेशभाषास्वपि कवीच्छया भवति । तत्रायैव प्राकृताादषु गाथेति संशिता सा । तथा ममैव
सलसिणेहमिश्रङ्को तुइ गुणरणाअरे उदिदो ।
नीलुप्पलप्पवोहे सिढिलो मा भोदु पच्छणा एसा ॥ . (सकलस्नेहमृगाङ्कस्त्वयि गुणरत्नकारे उदितः ।
नीलोत्पलप्रबोधे शिथिलो मा भवतु प्रार्थनैषा ॥ ) वैतालीये च शकुन्तलायां यथा
शहजे किल जे विणिन्दिए ण हु दे कम्म विवजणीअए । पशुमालणकम्मदालुणे अणुकम्पामिदुए व्व शोत्तिए ॥ ( सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः॥) एवं समादिष्वपि कर्पूरमार्यादौ ञयान्युदाहरणानि, भाषायामपि । तत्र महाराष्ट्रभाषायामुपजातो यथा
अगा! मुरारी भवदुःख भारी कामादिवैरी मन हे थरारी ॥
मी मूढ देवा न करींच सेवा माझा कुठावा परि तां करावा ॥ गुर्जरभाषायामपि स्रग्विणी यथावित्तते संचवू युक्तते भोगवू अग्निते होमवू विप्र प्रापy ॥ पापते खण्डवू कामते दण्डवू पुण्यते संचवू राम सेव● ॥ कान्यकुब्जभाषायामपि वसन्ततिलका यथा..... कन्दपंरूप जबतें तुम लीह्न कृष्ण !
से कोप काम हमही बहु पीर छोडी ॥