________________
पञ्चमोऽध्यायः।
"भरयननगैर्वरयुवती।" कुञ्जरकुम्भपीठपीनोन्नतकुचयुगला .
___पार्वणशर्वरीशगर्वापहमुखकमला ॥ पीननितम्बबिम्बसम्बाहनशिथिलगति
मुंअनराधिराज! भूयात्तव वरयुवतिः ॥ . अत्यष्टौ-"ससजभजगगैरतिशायिनी ।" यथा माघेइति धौतपुरन्मित्सरान्सरसि मजनेन
श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः ॥ अवलोक्य तदैव यादवानपरवारिराशेः
शिशिरेतररोचिषाप्यपां ततिषु मङ्क्तमीशे ॥ (शि०८-७१) दशभिः सप्तभिश्च यतिः । “नजभजजलगैरवितथम् ।” यथाश्रुतिपरिपूर्णवक्त्रमतिसुन्दरवाग्विभवं
तमखिलजैमिनीयमतसागरपारगतम् ॥ अवितथवृत्तविप्रजनपूजितपादयुगं
पितरमहं नमामि बहुरूपमुदारमतिम् ॥ एतदेवाष्टपश्चचतुर्भिर्यतौ कोकिलकं नाम यथानवसहकारपुष्पमधुनिष्कलकण्ठतया
मधुरतरस्वरेण परिकूजति कोकिलकः ॥ प्रथमककारविद्धवचनैर्धनलुब्धमते !
तव गमनस्य भङ्गमिव सम्प्रति कर्तुमनाः ॥ धृतौ-"रसजजभरैर्विबुधप्रिया" । यथाकुन्दकोमलकुड्मलद्युतिदन्तपङ्क्तिविराजिता
हंसगद्गदवादिनी वनिता भवेद्विबुधप्रिया ॥ पीनतुङ्गपयोधरद्वयभारमन्थरगामिनी
नेत्रकान्तिविनिर्जितश्रवणावतंसितकैरवा ॥ अष्टभिर्दशभिश्च यतिः । अतिधृतौ-"यमनसररगुरुभिर्विस्मिता"। यथा माघेश्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षे
पुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय ॥ प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्ष
. नरेन्द्रेरौपेन्द्रं वपुरथ विशद्धाम वीक्षाम्बभूवे ॥ (शि०२०-७१) षडभिःषभिः सप्तभिश्च यतिः । प्रकृतौ-"नजभजज जरैधृतश्री" ।