________________
नारायणभट्टीसहितवृत्तरत्नाकरे
विषमवृत्तान्तराण्याह
सजसादिमे सलघुको च नसजगुरुकैरथोद्गता ॥ व्यविगतभनजला गयुताः
सजसा जगौ चरणमेकतः पठेत्(१) ॥६॥ पाद इति शेषः । श्रादिमे पादे स-ज-स-लघवः । अथाऽनन्तरम्, द्वितीयपादे इत्यर्थः।न-स-ज-गुरुषुसत्सु तृतीयेऽम्रौपादे येभ-न-ज-लघवस्ते गयुता गुरुयुक्ताः कार्या इत्यर्थः । परिशेषाच्चतुर्थे स-ज-सागणाज-गुरू च चरणम्। एकवचननिर्देशात्प्रथममेकं चरणमेकत एकीकृत्य द्वितीयेनेत्यर्थात्पठेत् । प्रथमद्वितीयौ पादावविलम्बेन पठेत् । अत्यन्तयतिं न कुर्यादित्यर्थः । सजसमिति द्वन्द्वैकवद्भावः । स्वार्थे कौ । त्रयाणां पूरणेऽवौ गता ये भ-न-ज-लास्ते गयुक्ताः कार्या इति । मध्यमपूरणपदलोपिसमा. साश्रयणेन उद्देशविधानाद्वासर्वविधानाच्च तीयप्रत्ययोत्पत्तिरसामर्थ्य च न भवतीति शेयम् । एकत इत्येकशब्दो भावप्रधानस्तृतोयार्थे च तसिः। तथा चैक्येनेत्यर्थः । ल्यब्लोपे पश्चमी वा । प्रथम द्वितीयेनैकं विधाय पठेदित्यर्थः ॥ ६॥
(१) उदाहरणान्तरं यथा छन्दोवृत्तौ
स. ज. स. ल. - -- --- --- मृगलो-चना श-शिमुखीच ।।, । । ।। ।
न. स. ज. गु. -ཡིག-ཡིས།-ལིས་དང་ रुचिर- दशना--नितम्बि-नी ॥ ।।।। ।।5, । ।, 5.
- -- -- -AL हंसल--लितग--मना ल-ल-ना 5।। ।।।। ।,1, 5
स, ज. स. ज. ग. . परिणी--यते य-दिभवे--कुलोद्ग-ता॥ ।। । । ।। ।।, .