________________
११४
नारायणभट्टीसहितवृत्तरत्नाकरेपञ्चमोऽध्यायः ।
अर्धसमान्यत्राभिधायोद्देशक्रममनुसृत्य विषमवृत्तानि लक्षयतिमुखपादोऽष्टभिर्वर्णैः परे स्युर्मकरालयैः क्रमाद्बुदैः ॥ सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्य तदुदितममलमतिभिः पदचतुरूर्ध्वाभिधं वृत्तम् ॥ १ ॥
यस्य वृत्तस्य मुखपाद श्राद्यपादो वर्णाष्टकेन, परे द्वितीयाः पादा मकरालयैः समुद्रश्चतुभिरक्षरैः क्रमाद्बुद्धेः सततं नैरन्तर्येण स्युस्तद् वृत्तं निर्मलबुद्धिभिः पिङ्गलादिभिः पदचतुरूर्ध्वाभिधमुदितमुक्तम् । किंविशिष्टं तत् । विचित्रैर्विलक्षणैः पादैर्जातं सौन्दर्यं यस्य तत् तादृशम् । अत्र वर्णैरिति सम्पन्नसौन्दर्यमिति च वदता गुरुलघुनिवेशनियमो नास्ति । किं तु श्रोतृश्रोत्रसौभाग्यार्थं वर्णवैचित्र्यं विधेयमिति सूचितम् । प्रथमपादोऽष्टाक्षरः, द्वितयो द्वादशाक्षरः, तृतीयः षोडशाक्षरः, चतुर्थो विंशत्यक्षरः कार्य इति फलितोऽर्थः । श्रत्र चैकद्वित्रिचतुरङ्कानां परस्परताडनया पादानां परस्परसङ्करे शङ्खचक्रगदापद्मानां परस्परसङ्करे केशवाद्या इव चतुर्विंशतिभेदा भवन्ति । तत्प्रस्तारतो यथा
८/८|८|८ ८ ८ १२ १२ १२ १२ १२ १२ १६ १६ १६ १६ १६ १६/ २० / २०/२० २० २०/२० |१२|१६| २०|१२|१६|२०| ८ | १६ | २० | ८ | १६ | २० | १२ ८ २०१५ ८ | २० | १२ | ८ | १२ | १६ | १६ | ८ | १६/१२/१६/२०/२० | १२ | १६ | ८ | १६| २० | २० | ८ | ८ | १२ | ८ | २० | २०|१२| २६| १६| ८ | ८ | १२/१२ |२० २० १२ १६ १२ १६ २० २० ८ | १६ | ८ | १६ | २० | २० |१२| ८ | १२ | ८ | ८ | १२| १६ |१२| ८ | १६ | १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १०| ११ | १२| १३ | १४/१५/१६/ १७/१८/१९ / २०/२१/२२ / २३/२४ शाक्रान्तेष्वेव केषुचिदर्धसमत्वं केषुचिच्चोपजातित्वमित्यर्धजरतीयत्वस्यानौचित्यात्, यत्रोपजातित्वं तत्रोपजातित्वमेव मन्तव्यमित्युचितम् । यच्चोच्यते "उपजातिषु वार्धसमत्वस्यान्तर्भावादुपजातिस्वीकारेणैव कार्यनिर्वाहे " इति तदप्यलीकमेव । जातिद्वय सम्मेलनसम्भूतेषु वृत्तेषु उपजातित्वस्य वक्तुमशक्यत्वात् । सुनिरूपितमेवेदं ( पृ०७२ ) पूर्वं टिप्पण्यामिति नात्र पुनर्निरूप्यते । श्रत एव पिङ्गलाचार्यैः "श्राद्यन्तावुपजातयः" ( पिं० सू० ६-१८ ) इति “वृत्तम्' (पिं० सू० ५-१ ) इत्युपक्रमे "सममर्धसमं विषमं च" (पिं० सू०५-२ ) इति च सूत्रितम् । यदि नाम परस्परस्य परस्परेऽन्तर्भावादेव कार्यनिर्वाहः समभविष्यत् तदा कथमेतत् सूत्रद्वयं समगंस्यत । तस्मान्मदुक्तमेव ज्यायः इत्यलं पल्लवितेन । विस्तरस्तु यथावसरं प्रकाशयिष्यते ।